________________
__ १०३
पलिकासमेतः। नीलोत्पलादिसंबन्धादित्यादि ।
नीलोत्पलादिसम्बन्धादर्पणस्फटिकादयः । तच्छायाविभ्रमोत्पादहेतवः क्षणभगिनः ॥ २५७॥ सोपधानेतरावस्थ एक एवेति सर्वदा।
तच्छायस्तद्वियुक्तो वा स दृश्येतान्यथा पुनः॥ २५८ ॥ __ स्फटिकदर्पणादिः प्रतिक्षणध्वंसी सन् नीलोत्पलादिसंपर्काद्विपर्यस्तज्ञानोत्पत्चावाधिपत्यं प्रतिपद्यते । अन्यथा-यद्यक्षणिकः सन् छायां प्रतिपद्येत, तदा य एव सोपधानावस्थः स एवानुपधानावस्थितिरिति कृत्वा, नीलाद्युपधानवियुक्तोऽपि नीलादिच्छायः समुपलभ्येत, अपरित्यक्तपूर्वरूपत्वात् । यद्वोपधानावस्थायामपि नीलाद्या. कारवियुक्तो दृश्येत, पूर्वरूपाविशेषादिति । एतेन-अक्षणिकपक्षे सामान्येन सर्वेषामेव स्फटिकदर्पणादीनां छायाप्रतिपत्तिरपास्ता ॥ २५७ ॥ २५८॥ ___ संप्रति क्षणिकाक्षणिकपक्षयोश्छायाप्रतिपत्तिं प्रत्येकं निराकरोति-स्थिरत्वादित्यादि ।
स्थिरत्वानिर्विभागत्वान्मूर्तीनामसहस्थितेः।
बिभर्ति दर्पणतलं नैव च्छायां कदाचन ॥ २५९ ॥ स्थिरत्वात्-अक्षणिकत्वात् , दर्पणतलं पूर्वच्छायां बिभर्तीति संबन्धः । क्षणिकत्वेऽपि निर्विभागत्वान्न बिभर्तीति संबन्धनीयम् । तथा हि-कूपान्तर्गतोदकवहपणतले प्रतिबिम्बकमन्तर्गतमुपलभ्यते, न च दर्पणतलस्य विभागः-रन्ध्रमस्ति, निबिडतरावयवसन्निवेशात् , तस्माद्धान्तिरियम् । अथवा-निर्विभागत्वं पूर्वोत्तरावस्थायामनानात्वम् । अत्र कारणं स्थिरत्वादिति । तेनायमर्थो भवति । स्थिरत्वेन निविभागत्वात्-पूर्वोत्तरावस्थारहितत्वादित्यर्थः । किं च-मूर्तानामसहस्थितेः, नैव दर्पणतलं छायां बिभर्तीति संबध्यते । तथा हि-दर्पणतले तद्देशान्येव पर्वतादिप्रतिबिम्बान्युपलभ्यन्ते, न च मूर्ताः पदार्थाः कदाचिदेकदेशतामापद्यन्ते, ऐकात्म्यप्रसङ्गात् । एतच्च क्षणिकाक्षणिकत्वे साधारणं दूषणम् ॥ २५९ ॥ स्फटिकस्यापि भावतो नोपधानच्छायाप्रतिपत्तिरस्तीति दर्शयति-पार्धेत्यादि ।
पार्श्वद्वितयसंस्थाश्च सुशुक्लं स्फटिकोपलम् । समीक्ष्यन्ते तदेषोऽपि न च्छायां प्रतिपसवान् ॥ २६॥