________________
१०१
यपोकम्-वरूपेण यथा वहिरित्यादि, तदूषणार्थमत्रैवोपचयन्नाह-सर्वाथेत्यादि ।
सर्वार्थबोधरूपा च यदि बुद्धिः सदा स्थिता ।
सर्वदा सर्वसंवित्तिस्तकिमर्थं न विद्यते ॥ २५३ ॥ यदि सर्वार्थबोधरूपा सदा बुद्धिरवस्थिता तदा सर्वदा सर्वार्थवेदनप्रसङ्गः ॥२५३॥ कथमित्याह-शब्दोपधानेत्यादि ।
शब्दोपधाना या बुद्धी रसरूपादिगोचरा।
सैव हीति न चेझेदास्त्वया चैवोपपादिताः ॥ २५४ ॥ तथा हि-या शब्दोपधाना-शब्दविषया, बुद्धिः, सैव रसरूपादिविषया, नान्या, ततश्चैकार्थानुभववेलायामशेषार्थानुभवप्रसङ्गः, तदुपलम्भात्मिकाया बुद्धः सर्वदा व्यवस्थितत्वात् । यथोक्तम्-'एकयाऽनेकविज्ञाने बुध्येत सकृदेव तत् । अविशेषात्क्रमेणापि माभूत्तदविशेषतः"॥इति । न चेदिति । यदि या शब्दोपधाना बुद्धिः सैव रसादिगोचरा नाङ्गीक्रियते, एवं सति भेदो बुद्धीनां भवता स्ववाचैवोपपादितः स्यात्।।२५४॥ यश्चार्य वह्निदृष्टान्तः सोऽप्यसिद्ध इति दर्शयन्नाह-समस्तेत्यादि ।
समस्तदायरूपाणां न नित्यं दहनात्मकः ।
कृशानुरपि निःशेषमन्यथा भस्मसाद्भवेत् ॥ २५५ ॥ न बशेषदाह्यदहनस्वभावो दहनो नित्यमवस्थितोऽन्यथा सकलमेव दाह्यं भस्मसावेत्, दहनज्वालानुषक्तदाह्यवत्सदासन्निहितस्वदाहकत्वात् । न केवलं बुद्धिः सर्वा. थबोधखभावा न भवतीत्यपिशब्देन दर्शयति ॥ २५५॥
यद्येवं नित्यदहनात्मकः कृशानुर्न भवति, कथं तर्युपनीतमप्यर्थ दहेदित्याहदाह्यार्थसविधावित्यादि ।
दावार्थसन्निधावेव तस्य तदाहकात्मता।
युक्ता सर्वार्थदाहो हि सकृदेवं न सज्यते ॥२५६ ॥ एवमिति। समनन्तरोदितार्थाभ्युपगमे सति, सर्वार्थदाहो युगपन्न सज्यते-न प्रसज्यत इत्यर्थः । यथोक्तम्-यथा वा दर्पण इत्यादि । तदपि दर्पणादेनित्यैकरूपत्वे सति न युज्यत इति दर्शयन्नाह ॥ १५६ ॥