________________
पखिकासमेता। निबन्धनमिति । बुद्धभेदव्यवस्थानं प्रति कारणमित्यर्थः । देशकालावन्यथात्मकावन्यप्रकारौ यस्य तत्तथोक्तम् , देशकालाभ्यां वाऽन्यथाऽऽत्मा यस्येति वि. प्रहः ॥ २५०॥ नन्वित्यादिना प्रतिविधत्ते ।
ननु तद्देशसम्बन्धो नैव तासां तथाऽस्ति तत्। .
किमिति प्रतिभासन्ते तेन रूपेण तत्र च ॥ २५१ ॥ यस्मिन्हि देशे येन क्रमेण ताः समारोपिता व्यक्तयस्तदा प्रतिभासन्ते तेन देशेन संबन्धो नैव तासां देशान्तरकालान्तरगतानां तथा तेन क्रमेणास्ति, तत्किमिति तेन खेच्छासमारोपितरूपेण प्रतिभासन्ते । न ह्यन्येन रूपेणान्यस्य प्रतिभासनं युक्तमतिप्रसङ्गात् । एवं हि सर्वमेव ज्ञानं सर्वविषयं प्रसज्येत । ततश्च प्रतिनियतार्थव्यवस्थोच्छेद एव स्यात् ॥ २५१ ॥
भवन्मते हि नाकारो बुद्धे यस्तु वर्ण्यते ।
न विवक्षितदेशे च गजयष्ट्यादयः स्थिताः ॥ २५२ ॥ किं च भवतो मीमांसकस्य मते यो भासमानः स आकारो न बुद्धेः, किन्त्वसौ बागार्थस्वभावो वर्ण्यते । आकारवान्बायोऽर्थो निराकारा बुद्धिरिति वचनात् । यदि नामैवंभूतं ततः किमित्याह-न विवक्षितेत्यादि । विवक्षितो देशो यत्र तत्समारोपः कृतः । ततश्च यद्देशकालसंबद्धास्ते गजादयस्तद्देशसंबन्धित्वेनैव प्रतिभासेरन् । खविरहिणि तु देशान्तरे कालान्तरे च किमिति प्रतिभासन्ते । तस्मानिरालम्बना एवैते प्रत्ययाः परमार्थतोऽसङ्कीर्णस्वभावाश्चलात्मानश्च, कादाचित्कत्वादिति सिद्धम् । तत्स्वभावस्य च पुंसोऽनित्यत्वानेकत्वे च सिद्धे । स्यान्मतम्-प्रत्ययस्तस्य पुरुषस्य धर्मः, तेन तस्य भेदेऽपि न पुंसो भेदो धर्मित्वात्तस्येति । तदयुक्तम् । प्रत्ययश्चैतन्यं बुद्धिर्ज्ञानमित्यनन्तरत्वात् । न हि नामभेदमात्रेण वस्तूनां स्वभावो मिद्यते। किं च नामभेदेऽपि तेषां प्रत्ययानां चैतन्यात्मकमेकमनुगामिरूपमिष्टमेव । तस्य च चैतन्यस्साभेदे प्रत्ययानामपि तत्स्वभावानामविभाग एव । अन्यथा हि विरुद्धधर्माध्यासादेकान्तिको भेद एव स्यात् । एतेनैव निरालम्बनप्रत्ययप्रतिपादनेनाप्रत्यक्षत्वं बुद्धेः प्रत्युक्तम् । तथा हि-स परिस्फुरनाकारो न बायो गजादिरिति साधितम् , ततश्च तं तथा परिस्फुरन्तमाकारमात्मभूतमेव प्रतिपद्यमाना बुद्धयः स्वयंप्रकाशरूपत्वात् खसंविद्रूपाः सिध्यन्ति ।। २५२ ।।