________________
१००
तत्वसङ्ग्रहः ।
आह-न नित्यं दाहक इत्यादि । तथा न नित्यं बुद्धिः सर्वमर्थमुपलभते, सर्बदा सर्वस्य विषयस्यासन्निधानादिति भावः ॥ २४६ ॥
अथ नित्यत्वमस्याः कथमवगम्यत इत्याह — तत्रेत्यादि ।
तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिः । घटहस्त्यादिबुद्धित्वं तद्भेदाल्लोकसंमतम् ॥ २४७ ॥
1
तत्रेति वाक्योपन्यासे । बोधात्मकत्वेन – बुद्धिर्बुद्धिरिति, प्रत्यमिज्ञायमानत्वात्, शब्दवन्नित्या बुद्धिः । यद्येवमियं घटबुद्धिरियं पटबुद्धिरिति कथमिदं बुद्धीनां बैलक्षण्यं लोके प्रतिपत्तृभिरुपगतमित्याह — घटेत्यादि । तद्भेदादिति । घटहस्त्यादिभेदात् ॥ २४७ ॥
-
सैवेत्यादिना, एतदेव स्पष्टयति ।
सैवेति नोच्यते बुद्धिरर्थभेदानुसारिभिः ।
न चास्त्यप्रत्यभिज्ञानमर्थभेद उपाश्रिते ॥ २४८ ॥ अर्थभेदानुसारिभिरिति । प्रतिपत्तृभिः । अनेनान्वयव्यतिरेकाभ्यां अर्थभेदकृत एव बुद्धेर्भेद इति दर्शयति । न चास्त्यप्रत्यभिज्ञानमिति । अस्त्येव प्रत्यमिज्ञानमित्यर्थः ॥ २४८ ॥
नन्वित्यादिना प्रतिविधत्ते ।
ननु हस्त्यादिशून्यायां भूमावारोपकारिणः ।
प्रत्यया ये प्रवर्त्तन्ते भेदस्तत्र किमाश्रयः ॥ २४९ ॥ यदि ह्यर्थभेदकृत एव बुद्धेर्भेदस्तदा ये हस्त्यादिशून्यायां भुवि क्रमेण गजतुरगादीनवस्थितान्समारोपयन्तः प्रत्ययाः प्रवर्त्तन्ते तेषु भेदः किमाश्रयः प्रतीयेत । नैव कश्चिद्भेदव्यवस्थाश्रयोऽस्तीति यावत् । तथा हि-न स्वतो भेदोऽस्ति । सर्वबुद्धीनामेकत्वाभ्युपगमात् । नाप्युपधानभूतविषयनानात्वात्, तत्रोपघायकस्य कस्यचिदर्थस्या
भावात् ॥ २४९ ॥
स्यादेतत् — अर्थशून्यत्वमसिद्धम्, तथाचोक्तं कुमारिलेन - स्वमादिप्रत्यये बाह्यं सर्वथा नहि नेष्यते । सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम् ॥ इति तदेतदाशङ्कते —— अन्यदेशादिभाविन्य इत्यादि ।
अन्यदेशादिभाविन्यो व्यक्तयश्चेन्निबन्धनम् । सर्वत्रालम्बनं यस्माद्देशकालान्यथात्मकम् ॥ २५० ॥