________________
पविकासमेतः।
९९ बुद्धीनां पुरुषस्य च नित्यत्वमेकता चेष्टा, कस्मात् ? चैतन्यखामाव्यात्-बुद्धिलक्षणतन्यस्वाभाव्यात्पुरुषस्यास्मन्मतेनेत्यर्थः । कथं तर्हि रूपबुद्धी रसबुद्धिरित्यादिभेदः प्रतीयत इत्याह-भेदश्चेद्विषयाश्रय इति । चेच्छब्दः परमताभ्युपगमे । यद्येवं कल्प्यत इत्यर्थः ॥ २४२ ॥ __ स्यादेतद्यदि नित्यैका बुद्धिस्तदा किमिति क्रमेण रूपादीन्प्रतिपद्यते । यावता सक. देव प्रतीयाद्विशेषाभावादित्याह-स्वरूपेणेत्यादि ।
खरूपेण तथा वहिनित्यं दहनधर्मकः ।
उपनीतं दहत्यर्थ दाह्यं नान्यन्न चान्यदा ॥ २४३॥ यथा किल वह्निर्नित्यं दहनासकोऽपि सन्न सर्वदा सर्व दहति, किं तर्हि ? उपनीतम्-दौकितमेव दहति । तत्रापि यदेव दाह्यं दग्धुं शक्यं तदेव दहति नाघ्रादिकमित्यतो दाह्यमित्याह ॥ २४३ ॥ यथा वेत्यादिना दृष्टान्तान्तरमाह ।
यथा वा दर्पणः खच्छो यथा वा स्फटिकोपलः । यदेवाऽऽधीयते तत्र तच्छायां प्रतिपद्यते ॥ २४४॥ तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः ।
गृह्णन्ति करणानीतान् रूपादीन्धीरसौ च नः ॥ २४५ ॥ मलिनस्य च्छायाप्रतिपत्त्यभावात्स्वच्छ इत्युक्तम् । आधीयत इति । ढौक्यत इत्यर्थः । तथैवेति दान्तिकोपदर्शनम् । यद्यपि पुमांसो व्यापिनस्तथाऽप्यदृष्टवशादेह एव वर्तमानाश्चक्षुरादिकरणोपनीतान्विषयान् गृह्णन्ति, नान्यत्र । यत्त्वेतन्नित्यं चैतन्यमसावस्माकं धी:-बुद्धिः, न तु साङ्ख्यवत्तव्यतिरेकिणी बुद्धिः॥२४४॥२४५॥
यद्येवं कथमसौ धीङ्गिनी प्रसिद्धेत्येतदाशङ्कय तेनेत्यादिना सूचितमेव कारणमुपदर्शयन्बुद्धर्भगिनीत्वं समर्थयते ।
तेनोपनेतृसंरम्भभनिखाइङ्गिनी मतिः।
न नित्यं दाहको वह्रिाधासन्निधिना यथा ॥ २४६ ॥ उपनेतारः रूपादीनां विषयाणां प्रापयितारश्चक्षुरादयः, तेषां संरम्भः-व्यापारः, तस्य भङ्गित्वात्-विनाशित्वात् , भङ्गिनी मतिर्लक्ष्यते । न त्वसौ स्वतो विनाशिनी । यदि तर्हि न खतो विनाशिनी, तदा सर्वमर्थमुपलभेतेति तदवस्थमेव चोद्यमित्यत