________________
९८
तत्त्वसङ्ग्रहः
योऽहम्प्रत्ययगम्यः सोऽद्याप्यनुवर्त्तते, यथेदानीन्तनो बोद्धा । अहम्प्रत्ययगम्यश्चायमिदानीन्तनो बोद्धेति स्वभावहेतुः । एष वेति । इदानीन्तनो बोद्धा । तत एवेति । अहम्प्रत्यय गम्यत्वात् । एवं ज्ञातारं धर्मिणं कृत्वा प्रयोगो दर्शितः । सांप्रतमहम्प्रत्ययानां साध्यधर्मितां कृत्वा प्रयोगान्तरं दर्शयन्नाह — तेषामित्यादि । तेषामिति - अतीताद्यतनानामहम्प्रत्ययानाम्, साध्यतेति । साध्यधर्मितेत्यर्थः ॥ २३८ ॥ २३९॥ कथमित्याह – एकसन्तानेत्यादि ।
-
एकसन्तानसम्बन्धज्ञात्रहम्प्रत्ययत्वतः ।
ह्यस्तनाद्यतनाः सर्वे तुल्यार्था एकबुद्धिवत् ॥ २४० ॥
ह्यस्तनाद्यतनाः सर्वे अहम्प्रत्यया इत्ययं साध्यधर्मिनिर्देशः । तुल्यार्था इति साध्यधर्मः । एकविषया इत्यर्थः । एकेन देवदत्तादिसन्तानेन संबद्धो यो ज्ञाता तत्र तस्य वा येऽहम्प्रत्यया एकसन्तान संबद्धज्ञा त्रहम्प्रत्ययाः, तद्भावस्तत्वम् । अयं च हेतुनि - र्देशः । अहम्प्रत्ययत्वमात्रं पुरुषान्तरीयेष्वप्यहङ्कारेषु प्रवर्त्तत इत्यतोऽनैकान्तिकत्वपरिहारार्थमेकसन्तानसंबद्धज्ञातृविषयत्वं हेतुविशेषणं कृतम् । एकबुद्धिवदिति दृष्टान्तः । तेषामेवाहम्प्रत्ययानां मध्ये विवक्षितैकबुद्धिवदित्यर्थः ॥ २४० ॥
तदत्रेत्यादिनोत्तरपक्षमारभते ।
तदत्र चिन्त्यते नित्यमेकं चैतन्यमिष्यते ।
यदि बुद्धिरपि प्राप्ता तद्रूपैव तथा सति ॥ २४१ ॥
यदि हि चैतन्यं नित्यैकरूपमङ्गीक्रियते तदा बुद्धिरपि चैतन्यरूपाव्यतिरेकान्नित्यैकरूपा प्राप्नोति । न चैवमिष्टमतोऽभ्युपगमविरोधः प्रतिज्ञायाः । तथा हि भाष्यकारेणोक्तम् — क्षणिका हि सा न बुद्ध्यन्तरकालमवतिष्ठत इति । तथा जैमिनिनाऽप्युक्तम् — सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति । नित्यत्वे सति जन्मायोगात् । स्ववचनविरोधश्च कुमारिलस्य, यथोक्तं तेनैव — " न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम् । येनार्थग्रहणे पचाव्याप्रियेतेन्द्रियादिवत्" ।। इति । एकत्वाच्च बुद्धेः प्रमाणषट्टाभ्युपगमविरोधञ्च । तथा प्रत्यक्षविरोधोऽपि निरन्तरमध्यारोपितानेकविधार्थचिन्तायामुद्यव्ययानुषङ्गिणीनां बुद्धीनामतिविस्पष्टमनुभूयमानत्वात् ।। २४१ ॥ कुमारिलस्तु सर्व विरोधराशिमपश्यन्नाह – बुद्धीनामित्यादि ।
।
बुद्धीनामपि चैतन्यखाभाव्यात्पुरुषस्य च । नित्यत्वमेकताचेष्ठा भेदखेद्विषयाश्रयः ॥ २४२ ॥