________________
पलिकासमेतः। तस्मादयमहङ्कारो वर्तते यत्र गोचरे ।
उक्तादन्यत्र सिद्धोऽसावात्मा शाश्वतरूपवान् ॥ २३७ ॥ अहं वेनीत्ययमहम्प्रत्ययो ज्ञातारं प्रतिपद्यत इत्यत्राविवाद एव, वेनीति कर्तृप्र"त्ययसामानाधिकरण्यात् । स च ज्ञाता भवनात्मा वा भवेत् ज्ञानं वा भवत्परिकल्पितमेकान्तविनश्वरं क्षणिकमिति कल्पनाद्वयम् । तत्र यद्यात्मेति पक्षस्तदाऽखिलं चतुरसम् , अमिमतार्थप्रसिद्धः । अथ ज्ञानमिति पक्षस्तदा सर्वमतिदुर्घटम् । तथा हिअहं ज्ञातवानहमेव च सांप्रतं वेग्रीति योऽयमेककर्तृप्रत्यवमर्शेनाहम्बुद्धिरुपजायते तस्याविज्ञानक्षणो विषयत्वेन कल्प्यमानः कदाचिदतीतो वा कल्प्यते यद्वा साम्प्रतो वर्तमान उतातीतसाम्प्रतो यद्वा सन्ततिरिति चत्वारः पक्षाः । तत्राद्य-अतीते ज्ञाने विषयत्वेन कल्प्यमानो ज्ञातवानित्ययमाकारावसायो युज्यते, पूर्व तेन ज्ञातत्वात् । संप्रति जानामीत्येतत्तु न युक्तम् , न बसावतीतज्ञानक्षण इदानीं वर्तमानकाले वेत्ति, तस्य पूर्वनिरुद्धत्वात् । अथ वर्तमानं विषय इति द्वितीयः पक्षस्तदा वेग्रीत्येतद्युक्तम् , इदानीं तस्य वेदकत्वात् । ज्ञातवानित्येवमाकारणहणं तु न युक्तम् । कस्मात् ? नैवासीत्नागिदं यतः । इदमिति वर्तमानं ज्ञानम् । अत एव-अस्या बुद्धे(मुख्येन प्रवृत्तेः, नातीतं सांप्रतं च विज्ञानद्वयं प्राह्यमिति सिद्धम् । न हि वर्तमानातीतावुभौ ज्ञानलक्षणौ ज्ञातवन्तौ, नापि सांप्रतं जानीतः । किं तर्हि ? एको ज्ञातवानपरो जानाति । अत एव सन्तानोऽपि तयाऽहम्बुद्ध्या पायो न भवति, द्वितयस्य-अतीतवर्तमानज्ञानक्रियाद्वयस्यासंभवात् । तथाहिनासौ सन्तानो ज्ञातवान्पूर्व, नाप्यधुना जानाति, तस्य कल्पितत्वेनावस्तुत्वात्, न चावस्तुनो ज्ञातृत्वं भवति, तस्य वस्तुधर्मत्वात् । तस्माद्यथोक्तज्ञानव्यतिरेकेण यत्र विषयेऽयमहङ्कारो वर्त्तते स आलेति सिद्धम् ।। २२९ ॥ २३० ॥ २३१ ॥ ॥ २३२ ॥ २३३ ॥ २३४ ॥ २३५ ॥ २३६ ।। २३७ ॥ अथ शाश्वतरूपत्वमस्य कथं सिद्धमित्याह-व्यतीतेत्यादि ।
व्यतीताहकृतिश्चाद्यो ज्ञाताऽद्याप्यनुवर्तते । अहम्प्रत्ययगम्यत्वादिदानीन्तनबोद्धृवत् ॥ २३८ ॥ एष वा अस्तनो ज्ञाता ज्ञातृत्वात्तत एव वा। प्रस्तनहातपत्तेषां प्रत्ययानां च साध्यता ॥ २३९ ॥