________________
तत्त्वसङ्कहः। न हि पुंसः कर्तृत्वभोक्तृत्वे अवस्था समाश्रिते, किन्तु पुरुषमेव । यस्मात्पुमानेव करोति भुतेच, न त्ववस्था। ततः तस्मात् , (तस्य) अवस्थावतः पुरुषस्य, तत्त्वात्परित्यक्तपूर्वरूपत्वात्, कतैव तत्फलम्-तस्य कर्मणः फलमाप्नोतीत्यदोषः ॥२२७ ।। किं पुनरस्यात्मनोऽस्तित्वे साधकं प्रमाणमित्याह-पुमानित्यादि ।
पुमानेवंविधश्चायं प्रत्यभिज्ञानभावतः ।
प्रमीयते प्रबाधा च नैरात्म्यस्यामुनैव हि ॥ २२८ ॥ अहमेव ज्ञातवानहमेव वेग्रीत्यादेरेककर्तृविषयस्य प्रत्यभिज्ञानस्य-भावतः स. त्वात, आत्मा प्रसिद्धः । अमुनैव च प्रत्यभिज्ञानेन बौद्धादिपरिकल्पितस्य नैराम्यस्य बाधाऽपि सिद्धा । यथोक्तम्-'तेनास्मात्प्रत्यभिज्ञानात्सर्वलोकावधारितात् । नैराम्यवादबाधः स्यात्” इति ॥ २२८॥ कथं पुनः प्रत्यभिज्ञानप्रत्ययत एतद्वयं प्रसिध्यतीत्याह-अहमित्यादि ।
अहं वेद्मीत्यहबुद्धिांतारं प्रतिपद्यते। . स चात्मा यदि वा ज्ञानं स्यादेकान्तविनश्वरम् ॥ २२९ ॥ यद्यात्मा विषयस्तस्याश्चतुरस्रं तदाऽखिलम् । क्षणिकज्ञानपक्षे तु सर्वमेवातिदुर्घटम् ॥ २३०॥ तथा हि ज्ञातवान्पूर्वमहमेव च सम्प्रति । अहमेव प्रवेनीति या बुद्धिरुपजायते ॥ २३१॥ तस्या ज्ञानक्षणः को नु विषयः परिकल्प्यते । अतीतः साम्प्रतः किं वा किं वाऽसावथ सन्ततिः॥२३२॥ तत्राऽऽये विषये ज्ञाते ज्ञातवानिति युज्यते । जानामीति न युक्तं च नेदानीं वेत्त्यसौ ततः॥२३३ ॥ वर्तमाने तु विषये प्रवेनीत्युपपद्यते । ज्ञातवानित्यसत्यं तु नैवासीत्मागिदं यतः ॥ २३४॥ अत एव द्वयं प्राचं नैव तस्याः प्रकल्प्यते। न घुभौ ज्ञातवन्तौ वा जानीतो वाऽधुना पुनः ॥ २३५ ॥ सन्तानोऽपि न तद्वायो द्वितयस्याप्यसंभवात् । न बसौ ज्ञातवान्पूर्वमवस्तुत्वान्न वाधुना ॥ २३६ ॥