________________
पलिकासमेतः। यथाऽहेः कुण्डलावस्था व्यपैति तदनन्तरम् । संभवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥ २२३ ॥ तथैव नित्यचैतन्यखभावस्यात्मनोऽपि न । निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ २२४ ॥ किन्त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः।
अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवर्तते ॥ २२५ ॥ यथा किलाहे:-सर्पस्यैकस्यापि सतः कुण्डलावस्थानिवृत्तावार्जवावस्थाप्रादुर्भावः, सर्पत्वं पुनरवस्थाद्वयेऽप्यनुवर्तते, तथाऽऽत्मनोऽपि नित्यचैतन्यस्वभावस्यैकस्यापि सतो नाशेषस्वभावविगमो नापि नैयायिकादिपरिकल्पितात्मवदशेषस्वभावानुगमः, किं तर्हि ? सुखाद्यवस्था निवर्तन्ते प्रवर्त्तन्ते च, चैतन्यरूपं तु सर्वत्रानुयायीत्यतो न विरोध इति समुदायार्थः । अवयवार्थस्तूच्यते-नित्यचैतन्यस्वभावस्येति । नित्यं चैतन्यं स्वभावो यस्येति विग्रहः । सर्वस्येति । रूपस्येति शेषः । अनुगमोऽपि वेति । नेति प्रकृतेन संबन्धः । ताश्चेति । सुखदुःखाद्यवस्थाः ॥२२३ ॥२२४ ॥२२५ ॥
अथ कस्मादेकान्तेन व्यावृत्तिपक्ष एव नाश्रीयते यथा बौद्धैर्निरन्वयविनाशवादिभिरिष्यते, एकान्तिको वाऽन्वयो यथा नैयायिकादिमिराश्रीयत इत्याह-स्यातामित्यादि।
स्यातां ह्यत्यन्तनाशे हि कृतनाशाकृतागमौ ।
सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ २२६ ॥ यदि हि निरन्वयो विनाशः स्यात् , तदा कृतस्य कर्मणो नाशः स्यात्, कर्तुः फलानभिसंबन्धात् । अकृताभ्यागमश्च स्यादकर्तुः फलामिसंबन्धनात् । एकरूपत्वे चात्मनः सुखदुःखादिभोगो न स्यात्, आकाशवत् । अभोकवस्थातो भोकवस्थायां विशेषाभावात् । तथा चोक्तं कुमारिलेन-"तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पव"दिति ॥ २२६ ॥
ननु चोभयरूपे पुंसि याऽवस्था की न सा भोकीति, तावेव कृतनाशाकृताभ्यागमाविहापि प्राप्तावित्याह-न चेत्यादि ।
न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते। ततोऽवस्थासु तत्तत्त्वात्कत्र्तवामोति तत्फलम् ॥ २२७॥