________________
९४
तत्त्वसङ्ग्रहः ।
स्मामिरचिरकालावस्थायित्वनिबन्धना प्रदीपादौ क्षणिकशब्दप्रवृत्तिरतः सामान्येन क्षणिकत्वं सिद्धमेवेति । यद्येवमात्मशब्दप्रवृत्तिरप्यस्मामिरहङ्कारसंमिश्रिते चेतसीष्ठैवेति सिद्धः सामान्येनात्मा । यथोक्तम् - अथात्मशब्दोऽनित्यत्वविषय इत्यादिपक्षद्वयम्, तदप्यसङ्गतमेव । अनभ्युपगमात् । न ह्यात्मशब्दस्य कश्चित्परमार्थेन विषयोऽभ्युपगतः । नापि रूपादिव्यतिरिक्तः । न चापि नित्यशब्दस्य परमार्थेन क्वचिन्नित्ये वस्तुनि वृत्तिः सिद्धा, येन व्यभिचारः स्यात् । नापि शरीरादिष्वात्मशब्दस्योपचाराद्वृत्तिरस्खलद्गतित्वादित्युक्तमतो न प्रसिद्धसाधनम् ॥ २२० ॥
इत्थमात्माप्रसिद्धौ च प्रक्रिया तत्र या कृता । निरास्पदैव सा सर्वा वन्ध्यापुत्र इव स्थिता ॥ २२१ ॥ इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।
तदेवमात्माख्यस्य धर्मिणः प्रमाणव्याहतत्वेनाप्रसिद्धत्वात्तत्र या कर्तृत्वभो - क्तृत्वादिप्रक्रिया भवद्भिरुपचरिता सा वन्ध्यापुत्र इव निरास्पदेति न पृथग्दूषणमस्याः क्रियते । आश्रयनिराकरणेनैवास्याः प्रतिक्षिप्तत्वात् । कृतनाशाकृताभ्यागमदोषश्च यथा न भवति तथा कर्मफलसंबन्धपरीक्षायां प्रतिपादयिष्यते ।। २२१ ॥ इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।
मीमांसकपरिकल्पितात्मनिराकरणमाह — व्यावृत्त्यनुगमात्मानमित्यादि ।
व्यावृत्यनुगमात्मानमात्मानमपरे पुनः ।
चैतन्यरूपमिच्छन्ति चैतन्यं बुद्धिलक्षणम् ॥ २२२ ॥
व्यावृत्तिः———सुखदुःखाद्यवस्थानां परस्परतो भेदाः, अनुगमः — चैतन्यद्रव्यत्वसत्त्वादीनामनुवृत्तिः, तावेतौ व्यावृत्त्यनुगमावात्मा स्वभावो यस्येति विग्रहः । एतदुक्तं भवति ——–सुखादिरूपेण व्यावृत्तं सत्त्वादिरूपेणानुगतमात्मानं चिद्रूपमपरे जैमि - नीया वर्णयन्ति । तच्च चैतन्यं न बुद्धिव्यतिरेकेणान्यत्, यथा साङ्ख्यैरिष्यते, किं तर्हि ? बुद्धिरेवेति दर्शयति — चैतन्यं बुद्धिलक्षणमिति । बुद्धिलक्षणम् — बुद्धेः स्वरूपमित्यर्थः । बुद्धिव्यतिरेकेणापरस्य चिद्रूपत्वाप्रतीतेरिति भावः ।। २२२ ॥
1
कथं पुनरेकस्यात्मनः परस्परविरुद्धं व्यावृत्त्यनुगमात्मकं स्वभावद्वयं युज्यत इत्याह-यथाऽहेरित्यादि ।