________________
पजिकासमेतः। स्यात् । ततश्च तत्रापि घटादिषु तुल्यं चोचं "कथमेषां नैरात्म्यं यदि तावदात्मानुपकारक"मित्यादि । तस्माद्येन प्रकारेणात्मानधिष्ठितत्वेन वा तदुपभोगानायतनत्वेन वा तेषु घटादिषु बाह्येषु सर्वेषु साधारणं नैरात्म्यं भवतामपि प्रसिद्धम् । यब जीवच्छरीरे भवद्भिनिषिध्यते नेदं निरात्मकं जीवच्छरीरमिति, यस्य निषेधाजीवच्छरीरमेव सात्मकमुपगम्यते न मृतशरीरघटादय इति, तदेवास्मामिः प्रसाध्यते, निरात्मक जीवच्छरीरं वस्तुत्वादिभ्य इति । तस्मादात्मनोऽनुपकारकमित्यादिविकल्पोऽनास्पद एव, भवतामपि नैरात्म्यस्य प्रसिद्धत्वात् । किंच-यत्तावदुक्तमात्मानुपकारित्वसिद्धौ न दृष्टान्तोऽस्तीति, तदसम्यक् । तथाहि-शक्यमेवं प्रसाधयितुम् , यो यस्य स्वभावातिशयं नाधत्ते नासौ तस्योपकारी, यथा विन्ध्यो हिमवतः, नाधत्ते चात्मनो नित्यैकरूपस्य स्वभावातिशयं शरीरादय इति व्यापकानुपलब्धेः । न चासिद्धो हेतुः । स्वभावातिशयस्यात्माव्यतिरिक्तत्वात् । तदाधाने सत्यात्मन एवाऽऽधानं स्यात् । ततश्चानित्यत्वप्रसङ्गः । व्यतिरेके च स्वभावातिशयस्य संबन्धनिबन्धनाभावात्तदीयोऽसाविति संबन्धो न सिद्ध्येत् । तस्मान्नित्यस्य न कश्चिदुपकारी संभवति, तस्य तत्राकिंचित्करत्वात् । यञ्चोक्तम्-कस्स चात्मा शरीरमिति, तदप्यसम्यक् । सन्ति हि केचिदेवंविधा ये शरीरादीनात्मपरिणामरूपान्वर्णयन्ति । यथोपनिषद्वादिनः । अततान्प्रति(प्रति)षिध्यते । यच्चोक्तम्-उत्तरपदार्थविषयत्वान्निसः किं सात्मकमिति वाच्यमिति । तदप्यसङ्गतम् । न ह्युत्तरपदार्थः सन्नेव निषिध्यते । किं तर्हि ? । समारोपितः । सतः प्रतिषेद्भुमशक्यत्वात् । ततश्च योऽसौ परेण भ्रान्त्या समारोपितोऽर्थः स एवोत्तरपदार्थो भवति । यतस्तमेवानूच परस्य मिथ्याज्ञानत्वमाख्यापयितुं प्रतिषेधः क्रियते । अन्यथा ह्यक्षणिकाः प्रदीपादय इत्यादौ बौद्धपरिकल्पितक्षणिकत्वनिषेधे भवता क्रियमाणे चोद्यमेतदापतयेव, न ह्यसत्युत्तरपदे नत्रः प्रयोगं पश्याम इति । यञ्चोक्तम्-कस्य वा शरीरे आत्मा विद्यत इति, तदप्यसम्यक् । तथा हियेषां दर्शनमङ्गुष्ठपर्वार्द्धश्यामकादिफलप्रमाण आत्मेति, तेषां मतेनात्मनो मूर्तत्वाच्छरीरस्थितिरस्येवेति, तान्प्रति (प्रतिषेधो युज्यत एव । यञ्चोक्तम्-शरीरस्यात्मसंबन्धित्वनिषेधे दृष्टान्तो नास्तीति, तदसिद्धम् । परस्परमुपकार्योपकारकत्वाभावाद्विन्ध्यहिमवतोरिव नामशरीरयोः संबन्धोऽस्तीति पूर्ववत्प्रसाधयितुं शक्यत्वात् । यञ्चोक्तम्विशेषप्रतिषेधाच सामान्यं गम्यत इति, तदनेकान्तम् । भवद्भिः प्रदीपादीनां क्षणिकत्व. प्रतिषेधेऽपि कस्यचित्क्षणिकत्वसामान्येनानभ्युपगमात् । अथाऽपि स्वादिष्यत एवा