________________
९२
तत्त्वसङ्ग्रहः ।
कथं पुनरत्र व्याप्तिः सिद्धेत्याह - सात्मकत्वेत्यादि ।
सात्मकत्वे हि नित्यत्वं तद्धेतूनां प्रसज्यते । नित्याश्चार्थक्रियाऽशक्ता नातः सत्त्वादिसम्भवः ॥ २१९ ॥
-
यदि सात्मकत्वम् — आत्माधिष्ठितत्वं देहादीनां भवेत्, तदैषामात्मा हेतुः स्यात् । नाकारणमधिष्ठाता युक्तोऽतिप्रसङ्गात् । ततश्च तद्धेतूनाम् — आत्महेतुकानां शरीरादीनामविकलकारणलया नित्यत्वम् — अक्रमित्वं प्रसज्येत । स्यादेतद्यदि नाम नित्यत्वमेषां प्रसक्तम्, तथाऽपि वस्तुत्वादिकमनुवृत्तमेवेत्याह — नित्याश्चेत्यादि । नित्याश्च सन्तः शरीरादयोऽर्थक्रियायामशक्ताः, प्रसज्यन्त इति प्रकृतमर्थाद्वचनपरिणामेन संबध्यते । नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति भावः । अर्थक्रियासामर्थ्यनिवृत्तौ च वस्तुत्वनिवृत्तिरर्थक्रिया सामर्थ्यलक्षणत्वाद्वस्तुनः । वस्तुत्वनिवृत्तौ सत्त्वादीनामपि वस्तुधर्माणां निवृत्तिरिति सिद्धा व्याप्तिः ॥ २१९ ॥
उद्दयोतकरस्त्वाह- अथ निरात्मकमिति कोऽर्थः साध्यत्वेनेष्टः । यदि तावदात्मनोऽनुपकारकमिति, न दृष्टान्तोऽस्ति । न हि किंचिदात्मनोऽनुपकारकमस्ति । अथात्मप्रतिषेध आत्मा शरीरं न भवतीति । कस्य चात्मा शरीरम्, उत्तरपदविषयत्वाश्च निसः, किं सात्मकमिति वाच्यम् । न ह्यसत्युत्तरपदे निसः प्रयोगं पश्यामः, यथा निर्मक्षिकमिति । अथ शरीर आत्मा प्रतिषिध्यते, सिद्धं साधयसि । कस्य वा शरीर आत्मा विद्यते । अथ शरीरमात्मसंबन्धे (न्धि ? ) न भवतीति । पुनर्दृष्टान्तो नास्ति । सर्वे चैते विशेषप्रतिषेधाः, विशेषप्रतिषेधाच्च सामान्यं गम्यते । एवं सति यत्प्रतिषेद्धव्यं तदभ्यनुज्ञातं भवति । अथात्मशब्दः शब्दत्वादनित्य विषय इति साध्यते । तथाऽपि नित्यशब्देनानैकान्तिकः । शरीरादीनां चोपचारादात्मवाच्यत्वात्सिद्धसाधनम्। अथ शरीरादिव्यतिरिक्ता नित्यपदार्थविषयत्वेनानित्यविषय आत्मशब्दः साध्यते । तथापि रूपादिव्यतिरिक्तविषयाभ्युपगमाद्विरोध इति । तदेतत्प्रतिविधत्ते — घटादि - ष्वित्यादि ।
घटादिषु समानं च यवैरात्मा (यन्नैरात्म्यं ?) निषिध्यते । परैर्जीवच्छरीरेऽस्मिंस्तदस्माभिः प्रसाध्यते ॥ २२० ॥
तदेतद्भवतोऽपि तुल्यं चोद्यम् । तथाहि — घटादिषु बाह्येषु आत्मानधिष्ठितत्वेन तदुपभोगानायतनत्वेन वा नैरात्म्यं भवद्भिरपीष्यत एव । अन्यथा नेदं निरात्मकं जीवशरीरमप्राणादिमत्त्वप्रसङ्गाद्वटादिवदिति प्रसन्ने दृष्टान्तत्वेन तेषामुपादानं न