________________
पलिकासमेतः। दात्माऽस्य विषयो न भवतीत्याह-तत्स्वभाव इति । गौरादिखभावः । तस्य रूपादिगुणासंभवात् ।। २१३ ।। २१४ ।।
एवं तावत्तदाकारशून्यत्वान्नात्मविषयोऽहङ्कारो युक्त इति वर्णितम् । तत्र विवादाभावप्रसङ्गाच न युक्त इति दर्शयति-यदीत्यादि ।
यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् ।
तकिमर्थ विवादोऽयं तत्सत्त्वादी प्रवर्तते ॥ २१५ ॥ तस्यात्मनः सत्त्वनित्यत्वविभुत्वादौ ॥ २१५ ॥
स्यादेतद्यथा भवतां प्रत्यक्षीकृतेऽपि नीलादौ तत्स्वभावाव्यतिरिक्त)क्षणिकत्वादौ विवादः प्रवर्त्तते । तथाऽऽत्मन्यपि भविष्यतीत्याह-तथा हीत्यादि ।
तथा हि निश्चयात्माऽयमहङ्कारः प्रवर्त्तते।
निश्चयारोपवुद्ध्योश्च बाध्यबाधकता स्थिता ॥ २१६ ॥ युक्तो हि नीलादौ प्रत्यक्षेण गृहीतेऽपि तदव्यतिरिक्ते क्षणिकत्वादौ विवादः, तस्य "त्यक्षस्य निर्विकल्पत्वेनानिश्चायकतया क्षणिकत्वादेरनिश्चितत्वात् । भवत्पक्षे तु न युक्तोऽहम्प्रत्ययस्य सविकल्पकत्वेन निश्चयात्मकतयाऽऽत्मनो निश्चितत्वात् । न च निश्चयेन विषयीकृते वस्तुनि तद्विपरीताकारग्राहिणः समारोपप्रत्ययस्य प्रवृत्तिरस्ति, येन विवादो भवेत् । तयोः सहावस्थायित्वेन बाध्यबाधकभावात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं ते चेन्न निश्चिन्वन्ति, न गृहन्त्येवेति प्राप्तम् ॥ २१६ ॥ तदेवं परपक्षं निराकृत्य स्वपक्षं स्थापयन्नाह-तस्मादित्यादि ।
तस्मादिच्छादयः सर्वे नैवात्मसमवायिनः। क्रमेणोत्पद्यमानत्वाद्वीजाङ्कुरलतादिवत् ॥ २१७ ॥ अथ वाऽऽध्यात्मिकाः सर्वे नैरात्म्याक्रान्तमूर्तयः।
वस्तुसत्त्वादिहेतुभ्यो यथा बाह्या घटादयः ॥ २१८ ॥ प्रयोगः-ये क्रमेणोत्पद्यन्ते ते नात्मसमवायिनो यथा बीजाकुरलतादयः, क्रमेणोत्पद्यन्ते च सुखादय इति विरुद्धव्याप्तोपलब्धेः । आत्मसमवायित्वविरुद्धेनानात्मसमवायित्वेन क्रमोत्पत्तेाप्तत्वात् । सन्निहिताविकलकारणत्वायुगपदुत्पत्तिप्रसङ्गो विपर्यये बाधकं प्रमाणम् । अथवा-ये वस्तुत्वकृतकत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते सर्वे निरात्मानो यथा बाह्या घटादयः, वस्तुत्वादिधर्मोपेताश्चाध्यात्मिका जीवशरीरमनोबुद्धिदुःखसुखादय इति स्वभावहेतुः ॥ २१७ ॥२१८ ।।