________________
९०
तत्त्वसङ्ग्रहः ।
"
आद्यज्ञानवत्, मदीयशरीरवत् इति यदेतन्निदर्शनमुक्तं तद्यथोक्तसाध्यधर्मविकलमात्मनोऽसिद्धत्वात् । अतोऽनैकान्तिकता हेतोः ॥ २११ ॥
अभ्यैरित्यादिना पुनरप्युद्दषोतकरभावि विक्तादेर्मतमाशङ्कते ।
अन्यैः प्रत्यक्षसिद्धत्वमात्मनः परिकल्पितम् । स्वसंवेद्यो ह्यहङ्कारस्तस्यात्मा विषयो मतः २१२ ॥ ते ह्येवमाहुः - प्रत्यक्षत एवात्मा सिद्ध:, तथाहि — लिङ्ग लिङ्गिसंबन्धस्मृत्यनपेक्षमहमिति ज्ञानं रूपादिज्ञानवत्प्रत्यक्षम् । अस्य च न रूपादिर्विषय:, तद्विज्ञानभिन्नप्रतिभासत्त्वात् । तस्मादन्य एव विषय इति ॥ २१२ ॥
तदयुक्तमित्यादिना प्रतिविधत्ते ।
तदयुक्तमहङ्कारे तद्रूपानवभासनात् ।
न हि नित्यविभुत्वादिनिर्भासस्तत्र लक्ष्यते ॥ २९३ ॥ गौरवर्णादिनिर्भासो व्यक्तं तत्र तु विद्यते ।
तत्स्वभावो न चाऽऽत्मेष्टो नायं तद्विषयस्ततः ॥ २९४ ॥
असिद्धमहङ्कारस्यात्मविषयत्वं तदाकारशून्यत्वात् । प्रयोगः - यद्यदाकारशून्यं न तद्विषयम् । यथा चक्षुर्ज्ञानं न शब्दविषयम् । आत्माकारशून्यं चाहमिति ज्ञानमिति व्यापकानुपलब्धिः। न चायमसिद्धो हेतुरिति दर्शयति न हीत्यादि । तथा हिनित्यविभुत्वचेतनत्वादिगुणोपेत आत्मेष्यते । न चात्राहम्प्रत्यये नित्यत्वादिप्रतिभासो लक्ष्यते । किंतु गौरोऽहं मन्दलोचनः परिकृशस्तीत्रवेदनाभिन्न इत्यादिदेहावस्थासंस्पर्शेनोत्पत्तेर्गौरवर्णादिलक्षणः प्रतिभासः प्रतीयते । तस्माद्देहाद्यवस्थासंस्पर्शेनोत्पद्यमा नोऽहङ्कारो देहाद्यालम्बन एवेति ज्ञायते । व्यक्तमिति । स्पष्टमस्खलद्वृत्तित्वात् । ततश्च यदुक्तमुद्द्योतकरप्रभृतिभिः — उपभोगायतने शरीरेऽयमात्मोपचार:, यथाऽनुकूले भृत्ये राजा ब्रूते, य एवाहं स एवायं मे भृत्य इति । तदपास्तं भवति । तथा हि—– यद्ययं गौणः स्यात्तदा स्खलद्वृत्तिर्भवेत् । न हि लोके सिंहमाणवकयोर्मुख्यारोपितयोर्द्वयोरपि सिंह इत्यस्खलिता बुद्धिर्भवति । मदीयाः शरीरादय इति व्यतिरे - कदर्शनात् स्खलद्वृत्तिरहङ्कारः शरीरादिष्विति चेत् । न । आत्मन्यपि स्खलद्वृत्तित्वप्रसङ्गात् । तत्रापि हि मदीय आत्मेति व्यतिरेको दृश्यते । कल्पितोऽत्र भेद इति चेत् । इतरत्रापि समानमस्तु । तर्हि गौरोऽहमित्यादिप्रत्ययो मुख्यस्तथाऽपि कस्मा