________________
परिकासमेतः।
८९. ह्यप्रतिबद्धस्य निवृत्तावन्यनिवृत्तिप्रसङ्गोऽसङ्गत एव स्यादतिप्रसङ्गात् । न हि वन्ध्यापुत्रनिवृत्तौ तदसंबद्धानां प्राणादीनां निवृत्तिर्भवति । तस्माद्यथा वन्ध्यासूनुनिवृत्तौ तदसंबद्धानामपि प्राणादीनां निवृत्तिः प्राप्नोति घटादिवदिति केनचित्प्रसङ्गापादनं क्रियमाणमनैकान्तिकं भवति, एवं तवाप्येतदात्मनिवृत्तौ प्राणादिनिवृत्तिप्रसजनमनैकान्तिकमेव, संबन्धासिद्धेरिति भावः ॥ २०७ ॥ २०८॥ कथं पुनः संबन्धासिद्धिरित्याह-न तावदित्यादि ।
न तावदिह तादात्म्यं भेदाङ्गीकरणात्तयोः। कार्यकारणता नापि यौगपद्यप्रसङ्गतः ॥ २०९॥ तदात्मनो निवृत्तौ हि तत्सम्बन्धविवर्जिताः।
किममी विनिवर्तन्ते प्राणापानादयस्तनोः ॥ २१०॥ भेदाङ्गीकरणात्तयोरिति । तयोरात्मप्राणादिकयोर्न तादात्म्यलक्षणः संबन्धोऽस्ति, स्वभावभेदाभ्युपगमात् । तथाहि-अनित्या अव्यापिनो मूर्त्ताश्च प्राणादयः, तद्विपरीतस्त्वात्मा। नापि तदुत्पत्तिलक्षणः, प्राणादीनामविकलकारणत्वेन यौगपद्यप्रसङ्गात् । न चैतद्व्यतिरेकेण संबन्धान्तरमस्ति । तस्मात्संबन्धरहिताः प्राणादयः किमिति तनोः शरीराज्जीवनविशिष्टाद्विनिवर्तन्ते। नैव । तेनानैकान्तिको हेतुरिति भावः । एतेनेच्छाद्वेषप्रयत्नसुखदुःखज्ञानादीनि यान्यात्मलिङ्गत्वेन परैरुक्तानि तानि प्रतिषिद्धानि द्रष्टव्यानि, संबन्धासिद्धेः। प्रयोगः-ये यत्र न प्रतिबद्धास्ते तस्य गमका न भवन्ति, यथा तिलादेबेलाकादयः, न प्रतिबद्धाश्च प्राणादय आत्मनीति व्यापकानुपलब्धिः । न चासिद्धो हेतुः । पूर्व द्विविधस्यापि संबन्धस्य निरस्तत्वात् । न चाप्यनैकान्तिकः, सर्वस्य सर्वगमकत्वप्रसङ्गात् । न चापि विरुद्धः, सपक्षे भावा. दिति । यश्चाप्याह-"कर्तुः प्रसिद्धिः करणप्रसिद्धेरिति, तदसिद्धम् । न हि चक्षुरादीनां परमार्थेन करणत्वं सिद्धम् , विज्ञानोत्पत्तौ सर्वेषां हेतुभावस्य तुल्यत्वात् । खेच्छामात्रपरिकल्पितत्वाच कर्तृकरणव्यवहारस्येति । कर्तृत्वमात्रसाधने सिद्धसाध्यता, परिकल्पितस्यानिरस्तत्वात् । पारमार्थिककर्तृत्वसाधनेऽनैकान्तिकता । तथाभूतेन का कचिदपि चक्षुरादीनां प्रतिबन्धासिद्धेः ॥ २०९ ॥ २१०॥ यञ्चोक्तं सद्योजाताद्यविज्ञानेत्यादि, तत्राह-एवं चेत्यादि ।
एवं च साधनैः सर्वैरात्मसत्वाप्रसिद्धितः। नित्यव्यापिखयो)रुक्तं साध्यहीनं निदर्शनम् ॥ २११॥ १२