________________
८८
तत्त्वसङ्ग्रहः।
व्यवहारस्येति पश्चात्प्रतिपादयिष्यते । तेनास्यात्मशब्दस्य विषयो नास्त्येवेति कथं हेतोः साध्येन व्याप्तिर्भवेदिति भावः ॥ २०२ ॥ २०३ ॥ २०४ ॥ सविशेषणोऽप्यनैकान्तिको हेतुरिति दर्शयन्नाह-नभस्तलारविन्दादावित्यादि ।
नभस्तलारविन्दादौ यदेकं विनिवेश्यते ।
कारकादिपदं तेन व्यभिचारोऽपि दृश्यते ॥२०५॥ यथा हि गगनकुसुमादावयन्ताभावेन केनचित्कारकादिपदं निवेश्यते तदा तस्योभयप्रसिद्धेः शरीरादिवाचकव्यतिरिक्तत्वे सत्येकपदत्वमस्ति, न च शरीरादिव्यतिरिकवस्तुविषयत्वमपीत्यनैकान्तिको हेतुः ॥ २०५॥
कथं पुनः कारकादिपदं निरुपाख्ये शक्यं नियोक्तुमित्याह-सङ्केतमात्रमाविन्य इत्यादि।
सङ्केतमात्रभाविन्यो वाचः कुत्र न सङ्गताः ।
नैवात्मादिपदानां च प्रकृत्याऽर्थप्रकाशनम् ॥ २०६ ॥ खतनेच्छामात्रभावी हि सङ्केतः, तन्मात्रवाचिन्यश्च वाचः, तत्कथमासां कचिदपि प्रवृत्तिप्रसररोधो भवेत् । अथापि स्यादसामयिकैकपदत्वादित्ययं हेत्वर्थों विवक्षितस्तेन व्यभिचारो न भविष्यतीत्याह-नैवेत्यादि । न हि सङ्केतमन्तरेण शब्दानां प्रकृत्याऽर्थप्रकाशनमस्ति, अव्युत्पन्नस्यापि ततोऽर्थप्रतीतिप्रसङ्गात् । स्वेच्छया च नियोगाभावप्रसङ्गात् । सङ्केतवैयर्थ्यप्रसङ्गाच्च । तस्मादात्मादिपदानां नैव प्रकृत्याऽर्थप्रकाशनं सिद्धमित्यसिद्धो हेतुः । अथाविशेषास्पदपदार्थान्तर्भूतज्ञेयविषयत्वे सतीत्यपरं विशेषणमुपादीयते। यथोक्तं भाविविक्तेन । एवमपि यथोक्तविशेषणासिद्धेरसिद्धो हेतुायभावाचानैकान्तिकः ॥ २०६ ॥ यञ्चोक्तं प्राणादिभिर्वियुक्तश्चेत्यादि, तत्राह-प्राणादीनां चेत्यादि ।
प्राणादीनां च सम्बन्धो यदि सिद्धः सहात्मना । भवेत्तदा प्रसङ्गोऽयं युज्यते सङ्गतोऽन्यथा ॥ २०७॥ न वन्ध्यासुतशून्यत्वे जीवदेहः प्रसज्यते ।
प्राणादिविरहे येवं तवाप्येतत्पसजनम् ॥ २०८ ॥ यदि हि प्राणादीनामात्मना सह तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा कश्चित्संबन्धः सिद्धो भवेत्तदाऽऽत्मनिवृत्तौ शरीरे प्राणादिनिवृत्तिप्रसङ्गो युक्तिमान्भवेत् । अन्यथा