________________
पलिकासमेतः ।
अथ कल्पनायाः किं निबन्धनमित्याह – एककार्योपयोगित्वादित्यादि ।
एककार्योपयोगित्वादेकशब्दस्य गोचरः ।
साध्योऽप्येवंविधोऽभीष्टो यदि सिद्धप्रसाधनम् ॥ २०१ ॥
यस्मादसौ भ्रूलवाभङ्ग एकस्मिन्कार्ये चक्षुर्विज्ञानादिक उपयुज्यते, तस्माद्भिन्नोऽप्येकशब्दविषयो भवति । अथापि स्यादस्माभिरेवंविध एव कल्पितैकत्वः साध्योऽमिप्रेतः (अतः ) साध्यविकलता दृष्टान्तस्य न भवतीत्याह - साध्योऽपीत्यादि । एवं हि सिद्धसाध्यता, पूर्वापरीभूतानां संस्काराणामेकप्रत्ययनिमित्तानेकसत्वप्रज्ञप्तिविषयत्वात् ॥ २०१ ॥
यश्चोक्तं बुद्धीन्द्रियादीत्यादि, अत्राह — बुद्धिचित्तेत्यादि ।
बुद्धिचित्तादिशब्दानां व्यतिरिक्ताभिधायिता । नैवैकपदभावेऽपि पर्यायाणां समस्ति नः ॥ २०२ ॥ अतोऽनैकान्तिको हेतुर्ननूक्तं तद्विशेषणम् । उच्यते नैव सिद्धं तचेतः पर्यायतास्थितेः ॥ २०३ ॥ अहङ्काराश्रयत्वेन चित्तमात्मेति गीयते ।
८७
संवृत्त्या वस्तुवृत्त्या तु विषयोऽस्य न विद्यते ॥ २०४ ॥ एकपदत्वादित्यनैकान्तिको हेतुः । तथाहि - बुद्धिश्चित्तं ज्ञानमिन्द्रियमक्षं वेदना चित्तनुः कायः शरीरमित्यादीनां बुद्धीन्द्रियवेदनाशरीरपर्यायाणामेकपदत्वेऽपि नास्मन्मतेऽस्ति तद्व्यतिरिक्तपदार्थाभिधायितेति ततो विपक्षाद्व्यावृत्त्यसिद्धेरनैकान्तिकत्वम् । ननु चेदमेवाशय सिद्धपर्यायभिन्नत्वे सतीति तस्य हेतोर्विशेषणमुक्तं तत्कथमनैकान्तिकता भवति, तदत्राभिधीयते । असिद्धमेतद्धेतुविशेषणम्, कस्मात् ? चेतः पर्ययतास्थितेः । आमेत्येतस्य चित्तपर्यायत्वव्यवस्थानात् । यथोक्तम्, “चित्तमेवाहङ्कारसंश्रयत्वादात्मेत्युपचर्यते” इति । आत्मेत्युपचर्यते — व्यवहियत इत्यर्थः । तेन यदुक्तमुद्दधोतकारेण मुख्यासंभवादुपचारो न युक्त इति तदभिप्रायापरिज्ञानादिति प्रहीत - व्यम् । एतदेव गीयत इत्यनेन स्पष्टयति । तस्मादसिद्धविशेषणो हेतुः । एतच्च संवृत्त्या सविषयत्वमुपगम्यास्य हेतोरनैकान्तिकत्वमुक्तम् । यदि तु परमार्थेन तु बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वं प्रसाध्यते तदा व्याप्तेरनुमानबाधितत्वादयुक्त एवायं हेतुरिति दर्शयन्नाह – वस्तुवृत्त्येत्यादि । अध्यारोपितार्थविषयत्वात्सर्वस्यैव शाब्दस्य
I