________________
तत्त्वसङ्ग्रहः। किं च सामान्येन कारणपूर्वकत्वमात्रं प्रसाध्यते तदा सिद्धसाध्यतेति दर्शयतिएकानन्तरेत्यादि ।
एकानन्तरविज्ञानात् षड्रिज्ञानसमुद्भवः ।
युगपद्वेद्यते व्यक्तमत इष्टप्रसाधनम् ॥ १९८ ॥ यत एकस्मादनन्तरविज्ञानात्समनन्तरप्रत्ययात् षण्णां चक्षुरादिविज्ञानानामुत्पादः स्पष्टं संवेद्यते । तथा हि—यदैव नर्तकीरूपं पश्यति, तदैव मुरजादिशब्दं शृणोति, कुवलयादिगन्धं च जिघ्रति, कर्पूरादिरसमास्वादयति, व्यजनानिलादिस्पर्श चानुभवति, वखादि च मनसाऽऽदातुं चिन्तयति । न चालातचक्रदर्शनवत्तदृष्टिराशुसंचारादिति युक्तं वक्तुम् । अस्पष्टप्रतिभासितत्वप्रसङ्गात् । तथा हि-दर्शनानां प्रतिसन्धानादयं सकृद्हामिमानो भवता वर्ण्यते । प्रतिसन्धानं च स्मृत्या क्रियते । सा चातीतविषयत्वादस्पष्टा । स्पष्टश्चायं सकृद्रूपादिप्रतिभासः संवेद्यते । किंच सरो रस इत्यादौ सुतरामाशु सकारादिवर्णग्राहिणां ज्ञानानामुदयोऽस्तीति । अत्राऽपि सकृद्धहामिमानः स्यात् । ततश्च न कचित् क्रमो व्यवसीयेत । एतच्च पश्चाद्विस्तरेण प्रतिपादयिष्यते । इह तु व्यक्तमिति वचनात्परिहारदिक् प्रदर्शितैव ॥ १९८ ।।
अथ नित्यकरूपपदार्थहेतुत्वादेषामेकनिमित्तत्वं प्रसाध्यते, तदा व्याप्तेरनुमानबाधेति दर्शयति-क्रमिणामित्यादि ।
क्रमिणां त्वेकहेतुत्वं नैवेत्युक्तमनन्तरम् ।
अतोऽनुमानबाधाऽस्मिन्व्याय॑क्तं समीक्ष्यते ॥ १९९ ॥ अनन्तरमिति । एकानुगामीयादिना । तत्रेदं बाधनम् , ये सन्निहिता अप्रतिबद्धसामर्थ्यकारणास्ते युगपदेव भवन्ति । यथा समप्रसामग्रीकाः सकृद्भाविनोऽङ्करादयः । सन्निहिताप्रतिबद्धसामर्थ्यकारणाश्च देवदत्तस्य रूपादिविषयाः प्रत्यया इति खभावहेतुः । न चैवं संभवति । तस्माद्विपर्ययः ॥ १९९ ॥ दृष्टान्तस्यापि साध्यविकलतेति दर्शयति-नर्तकीत्यादि ।
नर्तकीचूलताभङ्गो नैवैकः परमार्थतः।
अनेकाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ २० ॥ न हि नर्तकीभ्रूलतादिरेकोऽस्ति तस्यानेकाणुसमूहत्वात् । यद्येवं कथमेकशब्दविषयत्वं तस्य भवतीत्याह-एकत्वं तस्य कल्पितमिति ॥ २० ॥