________________
पलिकासमेतः। यदि हि विनाशस्य कार्यत्वं संभवेत्तदा तव्यवच्छेदाय वस्तुत्वे सतीति विशेषणं सार्थकं भवेत् । यावता तस्यावस्तुतया हेतुमिर्न किंचित्कियत इति कथं हेतुमत्ता भवेत् । प्रयोगः यदवस्तु न तत्कस्यचित्कार्यम् , यथा शशविषाणम् । अवस्तु च नाश इति व्यापकविरुद्धोपलब्धेः । कार्यत्वे सति वस्तुत्वप्रसङ्गः सुखादिवदितीदमत्र बाधकं प्रमाणम् । किंचाभ्युपगमविरोधो भवताम् । तथाहि-कार्यमित्यामलाभाख्यात्खकारणसमवायात्सत्तासमवायाद्वाऽमिधानप्रत्ययौ भवतः । न च विनाशस्य द्रव्यादिखभावरहितस्य स्वकारणे समवायोऽस्ति । तत्र वा सत्तायाः। तस्य नीरूपत्वात् । अन्यथा ह्यसौ द्रव्यादिवदाश्रितोऽपि स्याद्वस्तु चेति न हेतुविशेषणेन व्यवच्छेद्यो भवेत् । अतो वस्तुत्वे सतीति विशेषणं व्यर्थम् ॥ १९४ ॥ रूपाविप्रत्यया इत्यादावाह-मयेत्यादि ।
मयेति प्रतिसन्धानमविद्योपालवादिदम् । क्षणिकेष्वपि सर्वेषु कर्चेकत्वादिभासतः ॥ १९५ ॥ मिथ्याविकल्पतश्चास्मान युक्ता तत्त्वसंस्थितिः।
सामर्थ्यभेदाद्भिन्नोऽपि भवत्येकनिबन्धनम् ॥ १९६ ॥ मया दृष्टं मया श्रुतमित्येवं यदेकज्ञातृनिमित्तत्वेन प्रत्ययानां घटनलक्षणं प्रतिसन्धानं तदेतद्नैकान्तिकम् । यतः क्षणिकेष्वपि भावेषु' भ्रान्तादेककर्तृत्वामिमानतः प्रतिसन्धानसंभवात् । तस्मादेवंभूतात्प्रतिसन्धानान युक्ता वस्तुव्यवस्था । कथं पुनर्भवतः क्षणाः प्रतिसन्धाननिमित्ततामुपगच्छन्तीत्याह-सामर्थ्यभेदादित्यादि । सामयभेदात्-सामर्थ्य विशेषात् । अनेकोऽप्यर्थ एकाकारपरामर्शादिकार्यस्यैकस्य निबन्धनम्-कारणम् , यथा गुडूच्यादयो ज्वरादिशमन इति पश्चाद्विस्तरेण प्रतिपादयिष्यति ॥ १९५ ॥ १९६ ॥ अथ भ्रान्तत्वमेव कथमस्य निश्चितमित्याह-एकानुगामीत्यादि ।
एकानुगामिकार्यत्वे पौर्वापर्य विरुध्यते।
रूपशब्दादिचित्तानां शक्तकारणसनिधेः ॥ १९७॥ यदि कस्य पूर्वोत्तरकालानुयायिन आमादेनियस्य कार्यत्वमेषां नीलादिप्रत्ययानां स्वात्तदा क्रमभावित्नमेषां विरुध्येत । अविकलकारणत्वेन युगपदेवोत्पादप्रसङ्गात् । न चापि नित्यस्य परापेक्षाऽस्ति । तस्य केनचिदनुपकार्यत्वात् ॥ १९७ ॥