________________
तत्त्वसङ्ग्रहः। भावोऽस्ति । तथाहि-एतावता किं न गतम्, मदीया प्रत्यक्षाविप्रत्यया मदीयशरीरादिव्यतिरिक्तसंवेदकसंवेद्या इति । प्रत्यक्षानुमानादिप्रविभागेनापि धर्मिप्रभेदोऽनर्थक एष, मदीयाः प्रत्यया इत्येतावतैब गतत्वात् । न चापि प्रतिवादिनो यथोक्तविशेषणविशिष्टो धर्मी सिद्ध इत्याश्रयासिद्धता च हेतूनाम् । अथाऽपि विफलं विशेषणमुपादाय तत्साधनार्थमन्यदेव साधनमुच्यते । तथा सति प्रकृतादादप्रकृतसंबद्धार्थमान्तरं निग्रहस्थानं भवेत् ॥ १९० ॥
कचित्समाश्रितत्वं च यदीच्छादेः प्रसाध्यते। तत्र कारणमात्रं चेदाश्रयः परिकल्प्यते ॥ १९१ ॥ इष्टसिद्धिस्तदाधारस्त्वाश्रयश्चेन्मतस्तव ।
तथापि गतिशून्यस्य निष्फलाऽऽधारकल्पना ॥ १९२ ॥ यथोक्तम्-इच्छादयश्चेत्यादि, तत्र यदि कारणमात्रमाश्रय इच्छादीनां साध्यते, तदा सिद्धसाध्यता, न हि निष्कारणा इच्छादयोऽस्माभिरिष्यन्ते। चतुर्भिश्चित्तचैत्ता हीति वचनात् । परिकल्प्यत इति । वर्ण्यत इत्यर्थः । अथाधारलक्षण आश्रयः साध्यते तदाऽपि प्रतिज्ञार्थस्यानुमानबाधितत्वान्न तेन हेतोाप्तिः सिद्ध्यतीति दर्शयति-तदाधार इत्यादि । तेषामिच्छादीनामाधारस्तदाधारः । मूर्त्तानां हि भावानां प्रसर्पणधर्माणां स्यादधःपातप्रतिबन्धादाधारकल्पना। ये तु सुखादयो गतिशून्यातेपामधःपतनासंभवात्किकुर्वन्नात्मादिराधारः स्यात् ॥ १९१ ॥ १९२ ॥
ननु यथा घटादयो बदरादीनामकिंचित्करा अप्याधारावद्वदात्मा सुखादीनामाधारो भविष्यतीत्याह-आश्रय इत्यादि । __ आश्रयो बदरादीनां कुण्डादिरुपपद्यते ।
गतेर्विषन्धकरणाद्विशेषोत्पादनेन वा ॥१९३ ॥ गतेर्विवृन्धकरणादित्यक्षणिकपक्षे । विशेषोत्पादनेन वेति क्षणिकपक्षे । उपादानकारणसमानदेशोत्पादनं तत् । अयं द्विविधोऽपि प्रकार इच्छादीनां न संभवतीति न तेषां कश्चिदाधारो युक्तः ॥ १९३ ॥
यचापि वस्तुत्वे सतीति विशेषणं तदनर्थकमेव व्यवच्छेद्यामावादिति दर्शयमाहनीरूपस्येत्यादि ।
नीरूपस्य च नाशस्य कार्यत्वं नैव युक्तिमत्। . अतो विशेषणं व्यर्थ हेतावुक्तं परैरिह ॥ १९४ ॥