________________
पलिकासमेतः। तदत्र प्रथमे तावत्साधने सिडसाध्यता।
सर्वज्ञाविप्रवेयत्वं त्वज्ज्ञानस्येष्यते यतः॥१८८ ॥ प्रथमे साधन इति । ज्ञानानि च मदीयानीत्यादौ । तत्र सिद्धसाध्यता भवदीयप्रत्ययानामस्मानिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येकबुद्धस्तदन्यैश्च परिवित्तवेदिमिर्वेदनाभ्युपगमात् ॥ १८८ ॥
यश्चापि पुरुषान्तरप्रत्ययवदिति साधर्म्यदृष्टान्तः स साध्यविकल इति दर्शयन्नाहप्रकाशकानपेक्षं चेत्यादि ।
प्रकाशकानपेक्षं च खचिद्रूपं प्रजायते।
अन्यविज्ञानमप्येवं साध्यशून्यं निदर्शनम् ॥ १८९॥ यतः पुरुषान्तरीयकमपि ज्ञानं प्रकाशकान्तरानपेक्षं स्वसंविद्रूपमेवोपजायते । तेन तत्वादिव्यतिरिक्तसंवेदकसंवेद्यत्वेन साध्येन शून्यमिदं निदर्शनम् ॥ १८९ ।।
अथापि स्थानान्यदीयं चित्तमात्रमुदाहरणत्वेनाभिप्रेतं किन्तु यस्मिन्विषये विज्ञानमागृहीततदाकारमुपजायते तदिहोदाहरणमिष्टमित्याह-तदाकारोपरक्तेनेत्यादि ।
तदाकारोपरक्तेन यदन्येन प्रवेद्यते ।
तस्योदाहरणत्वेऽपि भवेदन्येन संशयः ॥ १९ ॥ एवमपि यत्स्वसंविद्रूपमेव ज्ञानं ज्ञानान्तरसंवेदनरहितमुत्पद्यते तेन संशयो भवेद(तो) नैकान्तिको हेतुरिति यावत् । अथ तदपि स्वव्यतिरिक्तसंवेदकसंवेद्यमुदयव्ययधर्मकत्वप्रमेयत्वस्मर्यमाणप्रमाणत्वेभ्यो विषयवदिति मतम् । तदत्रापि साध्यविपर्यये बाधकामावाद्व्यतिरेको न निश्चितः । उत्तरोत्तरज्ञानानुभवे चानवस्था । न पव्यक्तव्यक्तिको विषयः सिद्ध्येत् । ततश्चैकविषयसिद्ध्यर्थ ज्ञानपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्येत । अथापि किंचिज्ज्ञानमनवस्थाभयास्वसंविदितरूपमेवोत्पद्यत इति । तथा तेनैवोदयव्ययधर्मकत्वादीनां हेतूनामनैकान्तिकता। तद्वदेवअन्येषामपि ज्ञानानां स्वसंवेदनत्वाभ्युपगमे कः प्रद्वेषः । अथ तदसंविदितरूपमेवेष्यते । एवमपि तदसिद्धौ सर्वेषां पूर्वज्ञानानामप्रसिद्धिरनमिव्यक्तव्यक्तिकत्वात् । ततश्च विषयोऽपि न प्रसिद्धयेत् । येषां तु विज्ञानवादिनां मतं सर्वमेव ज्ञानं प्राह्यप्राहकवैधुर्यात्स्वयमेव प्रकाशतेन तु ज्ञानान्तरेण वेद्यत इति, तान्प्रति साध्यविकलता दोषोऽकम्प्य एव । एवमन्येष्वपि कारणायत्तजन्मवत्त्वादिषु साधनेषु सिद्धसाध्यतादिदोषा वाच्याः । यचापि सदादीत्यादि धर्मिविशेषणं कृतं तत्पूर्ववदनर्थकं, न ह्यस प्रस्तुतसाध्यसिद्धावङ्ग