________________
तत्त्वसङ्ग्रहः। सिद्धपर्यायभिन्नत्वे यश्चैवं परिनिश्चितम् ।
यथानिर्दिष्टधर्मेण तद्युक्तं पटशब्दवत् ॥ १८३ ॥ सिद्धपर्यायभिन्नत्व इति। बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो भिन्नत्वे सतीत्यर्थः । यच्चैवं परिनिश्चितमिति । सिद्धपर्यायमिन्नत्वे सत्येकपदत्वेन । यथानिर्दिष्टधर्मेणेति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२ ॥ १८३ ॥
पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान् । नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गाद्धटादिवदिति । तद्दर्शयति-प्राणादिभिरित्यादि ।
प्राणादिभिर्वियुक्तश्च जीवदेहो भवेदयम् ।
नैरात्म्याटवत्तस्मात्रैवास्त्यस्य निरात्मता ॥ १८४ ॥ अस्य निरात्मतेति । जीवदेहस्य । यद्वा-अस्यात्मनो निरात्मता निःस्वभावता नास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४ ॥
अथ नित्यत्वविभुत्वे कथमस्य प्रतिपत्तव्ये इत्यत्राविद्धकर्णस्तावत्प्रमाणयति-मातुरुदरनिष्क्रमणोत्तरकालं मदीयाद्यप्रज्ञानसंवेदकसंवेद्यान्यतत्कालानि मदीयानि प्रज्ञानानि मदीयप्रज्ञानत्वात् आद्यमदीयप्रज्ञानवत् । एवं दुःखादयोऽपि पक्षीकर्तव्याः । एतच नित्यत्वेऽनुमानम् , तदेतदर्शयति-सद्योजातायेत्यादि ।
सद्योजाताद्यविज्ञानवेदकेनैव वेद्यते ।
सर्वमुत्तरविज्ञानं मज्ज्ञानत्वात्तदाद्यवत् ॥ १८५॥ तदाद्यवदिति । तस्योत्तरकालभाविनो ज्ञानस्यायं तदाद्यम् ॥ १८५ ॥ विभुत्वसिद्धये प्रमाणयति । अवनिजलानिलमनांसि विप्रतिपत्तिविषयभावापन्नानि दूरतरवर्तीनि मदीयेनात्मना सह संबध्यन्ते । मूर्त्तत्ववेगवत्त्वपरत्वापरत्वमिथःसंयोगविभागवत्त्वेभ्यो मदीयशरीरादिवदिति । तदर्शयति-मदीयेत्यादिना ।
मदीयेनात्मना युक्तं दूरदेशनिवर्त्यपि ।
क्षित्यादिमूर्तिमत्त्वादेरस्मदीयशरीरवत् ॥ १८६ ॥ एवमित्यादिनोपसंहरति । .
एवं च सत्त्वनित्यत्वविमुखानां विनिश्चये।
आत्मनो न निरात्मानः सर्वधर्मा इति स्थितम् ॥१८७॥ तदनेत्यादिना प्रतिविधत्ते ।