________________
पलिकासमेतः। शकरखामी पुनरन्यथा प्रमाणयति, इच्छादयः कचिदाश्रिताः वस्तुत्वे सति कार्यत्वाद्रूपादिवदिति, तदर्शयति-इच्छादयश्चेत्यादि ।
इच्छादयश्च सर्वेऽपि क्वचिदेते समाश्रिताः। वस्तुत्वे सति कार्यत्वादूपवत्स च नः पुमान् ॥ १७८ ॥ वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान् ।
हेतुमत्त्वेऽपि नाशस्य यस्मान्नवास्ति वस्तुता ॥ १७९ ॥ वस्तुत्वग्रहणादित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति ॥ १७८ ॥ १७९ ॥
उद्दयोतकरस्तु प्रमाणयति, देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् । कृतसमयानामेकस्मिन्नर्तकीभ्रूक्षेपे युगपदनेकपुरुषाणां प्रत्ययवत् । अस्यायमर्थः-यथा किल नर्तकीभ्रूभङ्गानन्तरमस्मामिर्वस्त्राणि प्रक्षेप्तव्यानीत्येवं कृतसमयानां बहूनां नानाकर्तृका नानाभूताः प्रत्यया निमित्तस्य भ्रूमङ्गस्यैकत्वान्मया दृष्टो मया दृष्ट इति प्रतिसन्धीयन्ते, तथेहापि नानाविषयाः प्रत्यया निमित्तस्यैकत्वात्प्रतिसन्धास्यन्ते । यच्च तदेकं निमित्तं स आत्मेति । प्रतिसन्धानं पुनर्मया दृष्टं मया श्रुतमित्येवमादीनां प्रत्ययानामेकज्ञानिमित्तत्वेन घटनम् । नर्तकीभ्रूक्षेपे तु प्रत्ययानामेकविषयत्वापादनम् । सर्वथा प्रतिसन्धानमुच्यते यदेकमर्थ निमित्तीकृत्य प्रत्ययानां संबन्धनम् । तदेतत्प्रमाणं दर्शयन्नाह-रूपादिप्रत्यया इति ।
रूपादिप्रत्ययाः सर्वेऽप्येकानेकनिमित्तकाः। मयेति प्रत्ययेनैषां प्रतिसन्धानभावतः॥ १८०॥ नर्तकीचूलताभङ्गे बहूनां प्रत्यया इव ।
अन्यथा प्रतिसन्धानं न जायेतानिबन्धनम् ॥ १८१॥ सुबोधम् ॥ १८० ॥ १८१ ॥
अयमपरस्तदीयः प्रयोगः-आमेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासंघातव्यतिरिक्तवचनं प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात् घटादिशब्दवत् । तदाहबुद्धीन्द्रियादीत्यादि ।
बुद्धीन्द्रियादिसंघातव्यतिरिक्ताभिधायकम् । आत्मेति वचनं यमादिदमेकपदं मतम् ॥ १८२॥
११