________________
૯૦
तत्त्वसङ्ग्रहः ।
शुभाशुभानां कर्त्तारं कर्मणां तत्फलस्य च । भोक्तारं चेतनायोगाचेतनं न खरूपतः ॥ १७२ ॥ ज्ञानयत्नादिसम्बन्धः कर्तृत्वं तस्य भण्यते । सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता ॥ १७३ ॥ निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः । बुद्धिभिर्वेदनाभिश्च जन्म तस्याभिधीयते ॥ १७४ ॥ प्रागात्ताभिर्वियोगस्तु मरणं जीवनं पुनः । सदेहस्य मनोयोगो धर्माधर्माभिसत्कृतः ॥ १७५ ॥ शरीरचक्षुरादीनां वघाद्धिंसाऽस्य कल्प्यते । इत्थं नित्येऽपि पुंस्येषा प्रक्रिया विमलेक्ष्यते ॥ १७६ ॥ (.............
***** *** 20........ . . . . . .............. DOG 4000
·
**** ****....
...........) ।। १७१ ॥ १७२ ॥ १७३ ॥ १७४ ।। १७५ ।। १७६ ॥ (सदाद्य विशेषविषयाविषयोभयात्मकज्ञेयप्रत्यक्षानुमानोपमानशाब्दसिद्धदर्शनप्रातिभज्ञानारेकविपर्यय ) स्वप्नस्वप्नान्तिकाः प्रज्ञान विशेषा मदीयशरीरादिव्यतिरिक्तसंवेदकसंबेद्याः स्वकारणायत्तजन्मवत्त्वसामान्यविशेषवत्त्वबोधात्मकत्वाशुतरविनाशित्वसंस्काराधायकत्वप्रत्ययत्वेभ्यः पुरुषान्तरप्रत्ययवत् वैधर्म्येण प्रशस्तमिता (?) घटादय इति । तत्र सदादयः षडविशेषाः पूर्वं व्याख्याताः । तेषां सदादीनां षण्णां विषयो द्रव्यगुणकर्माणि । अविषय: सामान्यविशेषसमवायाः । तदेतदुभयात्मकं ज्ञेयं विषयः प्रत्यक्षादीनां ज्ञानविशेषाणां ते तथोक्ताः । प्रत्यक्षानुमानोपमानेत्यादिस्तु द्वन्द्वनिर्देशः । सिद्धदर्शनं ज्योतिःशास्त्राद्युपनिबद्धम् । तद्धि सिद्धानां दर्शनं सिद्धं वा दर्शनमिति कृत्वा सिद्धदर्शनमुच्यते । प्रातिभं तु ज्ञानमार्ष यथावो मे भ्राता गमिष्यतीति । तद्धि प्रायेणर्षीणां भवतीति कृत्वार्षमुच्यते । आरेकः संशयः । विपर्ययो विपर्यासः । प्रथमस्वप्नावस्थाभावी प्रत्ययः स्वप्नः । तद्विषयं स्वप्नेऽपि यदपरं ज्ञानं भवति स स्वप्नान्तिकः । एत एव प्रज्ञानविशेषाः । शेषं सुबोधम् । तदेतत्प्रमाणमर्थतो निर्दिशन्नाह - ज्ञानानि चेत्यादि ।
ज्ञानानि च मदीयानि तत्वादिव्यतिरेकिणा । संवेदकेन वेद्यानि प्रत्ययत्वात्तदन्यवत् ॥ १७७ ॥ तत्वादीत्यत्रादिशब्देन बुद्धीन्द्रियवेदनाः परिगृह्यन्ते । प्रत्ययत्वादित्युपलक्षणम् । तदन्येऽपि स्वकारणायचजन्मवस्वादयो ग्राह्याः ॥ १७७ ॥