________________
पलिकासमेतः। अन्यथा योगपयेन सर्व कार्य समुद्भवेत् ।
तेषामपि न चेदेष नियमोऽभ्युपगम्यते ॥ १६७॥ तेषामिति । पावकादीनाम् । न केवलमीश्वरस्येयपिशब्दः । एष नियम इति । खहेतुबलसंभवकृतः ॥ १६६ ॥ १६७ ॥ ___ स्यादेतदूर्णनाभः स्वभावतः प्रवृत्तः किमिति स्वकार्याणि जालादीनि युगपन्न करो. तीत्याह-प्रकृत्यैवेत्यादि ।
प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते।
प्राणिभक्षणलाम्पव्याल्लालाजालं करोति यत् ॥ १६८॥ ऊर्णनाभोऽपि न स्वभावतः प्रवर्त्तते । किं तर्हि प्राणिभक्षणलाम्पट्यात्कादाचिकात्प्रतिनियतहेतुसंभूतादित्यभिप्रायः । न ह्यसौ नित्यैकरूपः, तस्यापि स्वहेतुबलभावित्वेन कादाचित्की शक्तिः ॥ १६८ ॥ ___ अथापि स्यात् । नानुकम्पया न क्रीडया किन्त्वबुद्धिपूर्वकमेव यथाकथंचित्प्रवपूर्तत इत्याह-यथाकथंचिदित्यादि ।
यथाकथंचिद्वृत्तिश्चेद्बुद्धिमत्ताऽस्य कीदृशी।
नासमीक्ष्य यतः कार्य शनकोऽपि प्रवर्तते ॥ १६९॥ एवं हि कैवर्तादेः प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया कथमसौ प्रेक्षावतामवधेयवचनः स्यात् । बुद्धिमत्तेति । प्रेक्षावत्ता। शनक:-कैवर्तः । एतेनैव पुरुषदूषणेन ये वा शौरिप्रभृतयः परैर्जगतो धातारः कल्पितास्तेऽपि निरस्ता बोद्धव्या इति दर्शयति ॥ १६९ ॥ शौर्यात्मजादय इत्यादि।
शौर्यात्मजादयो येऽपि धातारः परिकल्पिताः। एतेनैव प्रकारेण निरस्तास्तेऽपि वस्तुतः ॥ १७० ॥
इति पुरुषपरीक्षा। तत्र शौरिविष्णुः । आत्मजो ब्रह्मा । आदिशब्देन यो बुद्धिमान्कालः परैरिष्यते तस्स ग्रहणम् ........ । यथोक्तम् ॥ १७० ॥
। इति पुरुषपरीक्षा। अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् । . स्वतोऽचिदूपमिच्छन्ति नित्यं सर्वगतं तथा ॥ १७१॥ .