________________
तत्त्वसङ्ग्रहः ।
किमर्थ च व्यापारमीदृशमारभत इत्यादि सर्वो विकल्प ईश्वरेऽपि साधारणः । तेनयदाह प्रशस्तमतिः “परानुग्रहार्थमीश्वरः प्रवर्त्तते । यथा कृतार्थः कश्चिन्मुनिरात्महिताहितप्राप्तिपरिहारार्थासंभवेऽपि परहितार्थमुपदेशं करोति । तथेश्वरोप्यात्मीयामैश्वर्यविभूतिं विख्याप्य प्राणिनोऽनुग्रहीष्यन्प्रवर्त्तत इति । अथ वा शक्तिस्वाभाव्यात्, यथा कालस्य, वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तिः स्वभावतः । तथेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रलयहेतुकत्व”मिति । तदप्यनेनैव प्रतिविहितम् । तथा हि- परानुग्रहार्थं प्रवर्त्तत इत्यत्रेदमेव प्रतिविधानम् । अनुग्रहः परः कुर्यादेकान्तसुखितं जगदित्यादि । शक्तिस्वाभाव्यादित्यत्रापीदमेव दूषणम् । सर्गस्थित्युपसंहारान्युगपद्व्यक्तशक्तिकः । युगपज्जगतः कुर्यान्नो चेत्सोऽव्यक्तशक्तिकः । न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते । व्यक्तशक्तिरतोऽन्यश्चेद्भावो ह्येकः कथं भवेत् ॥ इति । कालस्यापि वसन्ताद्यभिव्यक्तौ पर्यायेण प्रवृत्तावयमेव दोषः । शीतोष्णान्वयभेदभाजस्तु भावा एव हि प्रतिक्षणविनाशिनः काल इत्येतत्पश्चात्प्रतिपादयिष्यते ॥ १६२ ॥ १६३ ॥
७८
अथ स्वभावतो वृत्तिरित्यादिनोद्योतकरमतमाशङ्कते ।
अथ स्वभावतो वृत्तिः सर्गादावस्य वर्ण्यते । पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि ॥ १६४ ॥ यद्येवमखिला भावा भवेयुर्युगपत्ततः । तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः ॥ १६५ ॥
-
स ह्याह — नहि भगवतः क्रीडार्था प्रवृत्तिः । अपि तु यथा पृथिव्यादीनां महाभूतानां स्वभाव एव स तादृशो यत्स्वकार्येषु प्रवृत्तिः, तथेश्वरस्यापीति । तदेतदयुक्तम् । एवं हि सर्वभावानां सद्व्यापारमात्रभाविनां समर्थाविकलकारणसन्निधानाद्युगपदेवोत्पादः स्यात् । न चापि बुद्धिमत्त्वं विशेषकं युक्तमिति पूर्वमेवास्माभिः प्रतिपादितम् ॥ १६४ ॥ १६५ ॥
यद्येवं पावकादिकार्याणामपि किं न यौगपद्यं भवतीत्याह - स्वहेतुबलसंभूता इत्यादि ।
स्वहेतुबलसंभूता नियता एव शक्तयः । असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु ॥ १६६ ॥
'