________________
पत्रिकासमेतः। किं च सृष्टे:-सर्गात्रागनुकम्प्यसत्त्वाभावात् । यस्मा अनुकम्पाया वशादयं धाता-स्रष्टा करप्येत ॥ १५८ ॥
न चायं प्रलयं कुर्यात्सदाऽभ्युदययोगिनाम् ।
तदष्टव्यपेक्षायां खातव्यमवहीयते ॥ १५९ ॥ यदि चायमनुकम्पया कुरुते तदा यदेव मनुष्याः सदाऽभ्युदययोगिनस्तेषां किमिति प्रलयं करोति । ये दुःखितसन्ततय आपायिकाः सत्त्वास्तेषामेव कामं करोतु प्रलयमिति भावः । अथापि स्यात्तेषामनुकम्प्यानां यददृष्टं धर्माधर्मलक्षणं तदपेक्ष्य सुखदुःखसमन्वितं लोकं करोति । नैतदस्ति । एवं हि स्वातत्र्यमभ्युपगतं हीयते । न चापि समर्थस्य काचिदपेक्षा । असामर्थे वाऽपेक्ष्यादेव लोकस्योत्पत्तेस्तत्कारणत्वमस्य हीयते ॥ १५९ ॥
पीडाहेतुमदृष्टं च किमर्थं स व्यपेक्षते।।
उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६० ॥ भवतु नाम तस्यादृष्टापेक्षा । तथाऽपि यददृष्टं धर्माधर्मालकं पीडाहेतुस्तदपेक्षा कृपालोर्न युक्ता, किन्त्ववधीरणमेव तत्र तस्य कृपापरतत्रतया युक्तं कर्तुम् । न हि कृपालवः परदुःखहेतुमेवान्विच्छन्ति, तेषां परदुःखवियोगेच्छयैव प्रवृत्तेः ॥ १६०॥
क्रीडा तस्य वृत्तिश्चेत्क्रीडायां न प्रभुर्भवेत् ।
विचित्रक्रीडनोपायव्यपेक्षातः शिशुर्यथा ॥ १६१ ॥ अथ नानुकम्पया करोति । किं तर्हि ? । क्रीडार्थम् । एतदप्यसम्यक् । एवं क्रीडोत्पादे स्वातध्यमस्य न स्यात् , सर्गस्थितिप्रलयासकस्य विचित्रक्रीडनोपायस्यापेक्षणात् ॥ १६१ ॥
क्रीडासाध्या च या प्रीतिस्तस्या यदपि साधनम् । तत्सर्वं युगपत्कुर्याद्यदि तत्कृतिशक्तिमान् ॥ १६२॥ क्रमेणापि न शक्तः स्यानो चेदादौ स शक्तिमान् ।
नाविभक्तस्य युज्यते शत्तयशक्ती हि वस्तुनः ॥ १६३ ॥ किं च ये ते विचित्राः क्रीडनोपायाः, तत्कारणे यदि शक्तिरस्यास्ति तदा युगपदेव कुर्यात् । अथादौ तस्य न शक्तिस्तदा क्रमेणापि न कुर्यात् । अशक्तावस्थाया अविशिष्टत्वात् । न होकस्सैकत्र वस्तुनि शक्तत्वमशक्तत्वं च परस्परविरुद्धं धर्मद्वयं युक्तम् ।