________________
७६
तत्त्वसङ्ग्रहः ।
समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् । ऊर्णनाभ इवांशूनां स हेतुः किल जन्मिनाम् ॥ १५४ ॥ त एवमाहुः —— पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेप्यलुप्तज्ञानातिशयशक्तिरिति । तथा चोक्तम् — ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव पृक्षः स हेतुः सर्वजन्मनाम् ॥ इति । तथा " पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यमि” ति । ईशसधर्माणम् — ईश्वरतुल्यधर्माणम्, द्वयोरपि विश्वसर्गस्थितिप्रलयनिमित्तत्वात् । एतावांस्तु विशेषः, ईश्वरव्यतिरिक्तमन्यदप्यात्मादिकं समवाय्यादिकारणमीश्वरकारणकैरिष्यते । पुरुषवादिभिस्तु पुरुष एव कारणम्, विश्वसर्गस्थितिप्रलयनिमित्तभावस्तु द्वयोरपि समानः । दुराख्यातसिद्धान्तानुगबुद्धय इति । दुराख्यातसिद्धान्तानुगा बुद्धिर्येषामिति विग्रह: । ऊर्णनाभो मर्कटकः ॥ १५३ ॥१५४॥ अस्यापीत्यादिना दूषणमारभते — ईश्वरवदिति ।
·
अस्यापीश्वरवत्सर्वं वचनीयं निषेधनम् ।
किमर्थं च करोत्येष व्यापारमिममीदृशम् ॥ १५५ ॥ षष्ठयन्ताद्वतिः । अत्राप्येवं दूषणं वाच्यम् - पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः । गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् । इत्यादि । यदि चेश्वरसिद्धये यथा परैः साधनान्युक्तानि । तथैव पुरुषसिद्धये पुरुषवादिमिरुपादीयन्ते । तदा तद्वदेवासिद्धतादिदोषो वाच्यः । अन्यदपि दूषणप्रकारमाह - किमर्थं चेत्यादि । प्रेक्षापूर्वकारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वादतः किमर्थमयं पुरुषो जगद्रचनाव्यापारमीदृशं करोतीति वक्तव्यम् ॥ १५५ ॥
1
यद्यन्येन प्रयुक्तत्वान्न स्यादस्य स्वतन्नता । अथानुकम्पया कुर्यादेकान्त सुखितं जगत् ॥ १५६ ॥ आधिदारिद्र्यशोकादिविविधायासपीडितम् ।
जनं
तु सृजतस्तस्य काऽनुकम्पा प्रतीयते ॥ १५७ ॥ यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदाऽस्य यत्स्वातव्यमभ्युपगतं तद्धीयेत । अथ कृपया परानुग्रहार्थ करोति तदा नारकादिदुःखितमत्वनिर्माणं न कुर्यादेकान्तसुखितमेव कुर्यात् ॥ १५६ ॥ १५७ ॥
सृष्टेः प्रागनुकम्पानामसत्त्वे नोपपद्यते । अनुकम्पाऽपि यद्योगाद्धाताऽयं परिकल्प्यते ॥ १५८ ॥