________________
७५
पशिकासमेतः। ब्रह्मणः सा (न) तत्किचित्करोतीति, न युक्तमविद्यावशात्तथा प्रतिभासनम् । ततश्चाविद्यया सह तस्य संबन्धाभावात्संसाराभावप्रसङ्गः। न चापि सा तत्वान्यत्वाभ्यां निर्वक्तुं शक्यत इति युक्तं वक्तुम् , वस्तुधर्मस्य गत्यन्ताभावात् । अन्यथा वस्तुत्वमेव न स्यात् । न चावस्तुवशात्तथा तस्य ख्यातियुक्ताऽतिप्रसङ्गात् । तथाभूतस्य चार्थक्रियाकारिणः खभावस्यावस्थितिनामकरणे न ना(नो ?)स्ति विवादः। अस्माकं तु वितथामिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते । शक्तिश्च कारणात्मकज्ञानात्मभूतैवेति । तेन पूर्वपूर्वतः कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरकार्यज्ञानस्य वितथाकारामिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातियुक्ता । तस्याश्चाविद्याया योगाभ्यासादसमर्थतरतमक्षणोत्पादक्रमेण व्यपगमात्परिशुद्धज्ञानसन्तानोदयादपवर्गप्राप्तिरित्यतो बन्धमोक्षव्यवस्था युक्तिमती । नत्वेवं भवतां संभवति, नित्यैकरूपत्वाद्ब्रह्मणोऽवस्थाद्वयासंभवात् । एकत्वाच्च तस्य ब्रह्मण एकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः, एकस्यामुक्तौ सर्वेषाममुक्तिप्रसङ्गश्चानिवार्यः । न चाप्ययोगित्वावस्थायामात्मज्योतीरूपत्वेऽस्य किंचित्प्रमाणमस्ति । प्रसाधकं ज्ञानं हि प्रकाशात्मतया स्वसंवेदनप्रसिद्धम् । न त्वेवं शब्दात्मा सर्वत्र प्रत्ययात्मनि संवेद्यत इति निर्दिष्टमेतत् । अथायोग्यवस्थायामात्मज्योतिष्वमस्य नाङ्गीक्रियते, एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्रमत्यक्तपूर्वरूपस्य ब्रह्मणः पश्चाद्योग्यवस्थायां कुतः संभूतमिति वाच्यम् । तस्मान्मिथ्याप्रवादोऽयं शब्दब्रह्मवादो भवतामित्यलं बहुना ॥ १५१ ॥ प्रधानेत्यादिना पूर्वोक्तं दूषणमार्गमिहाप्यतिदिशति ।
प्रधानपरिणामेन समं च ब्रह्मदर्शनम् । तहूषणानुसारेण बोद्धव्यमिह दूषणम् ॥ १५२ ॥
इति शब्दब्रह्मपरीक्षा। तत्रैवं दूषणं वाच्यम्-न शब्दजन्यं तत्कार्य सत्तातो हेतुवित्तिवत् । अतो नामिमतो हेतुरसाध्यत्वात्परालवत् ॥ इत्यादि ॥ १५२ ॥
इति शब्दब्रह्मपरीक्षा। अन्य इत्यादिना वेदवादिमतमुपक्षिपति ।
अन्ये त्वीशसधर्माणं पुरुषं लोककारणम् । . कल्पयन्ति दुराख्यातसिद्धान्तानुगबुद्धयः ॥ १५३॥