________________
७४
तत्त्वसङ्ग्रहः ।
ज्ञानमात्रेऽपि नैवास्य शक(क्य?)रूपं ततः परम् । . भवतीति प्रसक्ताऽस्य वन्ध्यासूनुसमानता ॥ १५०॥
एतच पूर्वमीश्वरपरीक्षायां प्रसाधितम् । ततः परमिति । त्यागादाननिबन्धनाश्रीलादेः परमन्यदित्यर्थः । यदि वा-तत इति निगमनम् । परमिति त्यागादाननिबन्धनानीलादेः परमन्यदित्यर्थः । यदि वा-तत इति निगमनम् । परमिति तात्विकम् । वन्ध्यासूनुसमानतेति । न हि बन्ध्यासूनोरवस्तुत्वव्यवस्थायामर्थक्रियासामयविरहव्यतिरेकेणान्यन्निबन्धनमस्ति ॥ १४९ ॥ १५०॥
अथेदमुच्यते । तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव पश्यन्तीति, तदपि नोपपद्यत इति दर्शयति-विशुद्धेत्यादि ।
विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत्। .
विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य सङ्गतः ॥ १५१॥ यदि हि ज्ञाने योगजे तस्य व्यापारः स्यात्तदा योगिनस्तस्य रूपं पश्यन्तीति स्यात् । यावता यथोक्तेन प्रकारेण ज्ञाने तस्य व्यापाराभावादयुक्तमेतत् । स्यादेतन्न तद्विषयज्ञानोत्पत्त्या योगिनस्तं पश्यन्ति । तद्व्यतिरिक्तस्य योगिनो योगिज्ञानस्य चाभावात् । किन्तु योगित्वावस्थायां स्वमात्मानं ज्योतीरूपं तत्प्रकाशमानं योगिनस्तं पश्यन्तीति । उच्यते। यद्येवं प्रागयोगित्वावस्थायां किं तस्य रूपमिति वाच्यम्।यदि सदैव ज्योतीरूपं तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति, सदैवात्मज्योतीरूपत्वाब्रह्मणः। ततश्चायमतः सर्वेषां मोक्षप्रसङ्गः । अथापि स्याद्यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमप्यविद्यावशादविशुद्धसन्ततीनां तथा प्रकाशत इति । तदसम्यक् । न हि तद्व्यतिरेकेणान्ये केचिदविशुद्धसन्ततयः सन्ति येषां तत्तथा प्रतिभासते । स्वयमेव तथा प्रतिभासत इति चेत्, एवं तर्हि मोक्षाभावप्रसङ्गः। सर्वदेव ब्रह्मणोऽद्वयरूपप्रतिभासात्मकत्वात् । अस्माकं तु विशुद्धज्ञानान्तरोदयान्मुक्तियुज्यत एव । न चापि भवतां तव्यतिरेकिण्यविद्याऽस्ति । यद्वशात्तत्तथा प्रतिभासत इति स्यात् । अव्यतिरेके चाविद्यायास्तद्वशात्तदेव तथा प्रतिभासत इति सुव्याहृतमेतत् । अथापि स्यादविद्यावशाल्यातीत्यनेनाविद्यात्मकत्वमेव तस्य ख्याप्यत इति । यद्येवं सुतरां मोक्षाभावप्रसङ्ग एव ख्यापितो भवति । न हि नित्यैकरूपे ब्रह्मण्यविद्यात्मके स्थिते सति तदात्मिकाया अविद्याया व्यपगमः संभवति । येनाविद्याव्यपगमा न्मुक्तिर्भवेत् । अथ व्यतिरिकाऽविद्याऽङ्गीक्रियते, एवमपि नित्यत्वादनाधेयातिशयस