________________
पलिकासमेतः। प्रमाणवशाद्धि प्रमेयसत्ताव्यवस्थितिः, न चैवं रूपस्य ब्रह्मणः सिद्धये किंचन प्रमाणमस्ति । तथाहि न तावत्प्रत्यक्षतस्तस्य सिद्धिः । न हि नीलादेहिताहितप्राप्तिपरिहाराधिष्ठानाव्यतिरिक्तमपरं ब्रह्मरूपं प्रतिभासते । अप्रतिभासमानं च कथं तद्युत्थितचेतोमिया॑यमार्गावस्थितैरस्तित्वेन प्रतीयताम् ॥ १४५ ॥ १४६ ॥
न तत्प्रत्यक्षतः सिद्धमविभागमभासनात् । नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं च तत्र न ॥१४७॥ धर्मिसत्वाप्रसिद्धेस्तु न खभावः प्रसाधकः ।
न चैतदतिरेकेण लिङ्गं सत्ताप्रसाधकम् ॥ १४८॥ स्यादेतत् । स्वसंवेदनप्रत्यक्षत एव तत्सिद्धं ज्ञानात्मरूपत्वात् । तथाहि-ज्योतिस्तदेव शब्दात्मकत्वाचैतन्यरूपत्वाचेति । तदेतत्स्वसंवेदनविरुद्धम् । तथापन्यत्र गतमानसोऽपि चक्षुषा रूपमीक्षमाणोऽनाधिष्ठा(दिष्टा?)मिलापमेव नीलादिप्रत्ययमनुभवतीति । एतच विस्तरेण प्रतिपादयिष्यते । एतेन यदुक्तम्-"न सोऽस्ति प्रत्ययो लोके” इत्यादि, तदपि प्रत्युक्तं भवति । तस्मादविभागं शब्दमयं ब्रह्म न प्रत्यक्षतः सिद्धम् । तस्य तथाभूतस्याप्रतिभासनात् । नाप्यनुमानतः । तथा हनुमानं भवत्कार्यलिङ्गं भवेत् ? स्वभावलिङ्ग वा ? अनुपलब्धेस्तु प्रतिषेधविषयत्वाद्विधावनधिकार एव । तत्र न तावत्कार्यलिङ्गम् , नित्यात्कस्यचित्कार्यस्यानुपपत्तेः, क्रमयोगपद्याभ्यां नित्यस्यार्थक्रियाविरोधात्। नापि स्वभावलिङ्गमस्ति । तस्यैव ब्रह्माख्यस्य धर्मिणोऽसिद्धेः। न प्रसिद्ध धर्मिणि तत्स्वभावभूतो धर्मः स्वातत्र्येण सिद्ध्येत् । अन्यत्तर्हि लिङ्ग भविव्यतीत्याह-न चैतदित्यादि । स्वभावकार्यव्यतिरेकेणान्यस्य साध्यार्थप्रतिबन्धाभावात् । न चाप्रतिबद्धं लिङ्गं युक्तमतिप्रसङ्गात् । यदपि च शब्दरूपान्वयत्वं भावानामुक्तम् । तदसिद्धत्वादलीकत्वाच न शब्दरूपत्वं पारमार्थिकं ब्रह्मणः साधयितुमलम्। नाप्यागमात्तस्य सिद्धिस्तस्यानवस्थितत्वात् । यद्यप्यनुपलम्भाख्यमस्ति लिङ्गम् । तत्तु स्वभावहेतावेवान्तर्गतमिति भावः । यद्वा-सत्ताप्रसाधकस्य विवक्षितत्वादत एवाह-सत्ताप्रसाधकमिति ॥ १४७ ॥ १४८ ॥
अपि च-मानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म गम्यताम् । तदयोग्यतया रूपं तख्यावस्तुत्वलक्षणम् । इत्येतत्प्रतिपादयन्नाह-ज्ञानं ज्ञेयक्रमात्सिद्धमित्यादि ।
ज्ञानं शेयक्रमात्सिद्धं क्रमवत्सर्वमन्यथा । योगपचेन तत्कार्य विज्ञानमनुषज्यते ॥१४९॥
१.