________________
तत्त्वसमहः। • शब्दाकारानुस्यूतत्वादिति च हेतुरसिद्ध इति दर्शयन्नाह-अतद्रूपेत्यादि ।
अतद्रूपपरावृत्तमृदूपत्वोपलब्धितः। कुम्भकोशादिभेदेषु मृदात्मैकोऽत्र कल्पते ॥१४२ ॥ नीलपीतादिभावानां नत्वेवमुपलभ्यते ।
अशब्दात्मपरावृत्तिरवीजा कल्पनाऽपि तत् ॥१४३॥ न हि मावानां परमार्थेनैकरूपानुगमोऽस्ति । सर्वेषां स्वस्वभावव्यवस्थिततया समानजातीयव्यावृत्तस्वभावत्वात् । काल्पनिकं तु विजातीयव्यावृत्तिकृतमेकाकारानुस्यूतत्वमेषा व्यवस्थाप्यते । यथा घटशरावोदश्चनादिषु परमार्थतो मिनेष्वप्यमृदात्मकपदार्थव्यावृत्तिकृतो मृदात्मा कल्प्यते तत्र । तदपि काल्पनिकमेषां नीलादीनां शब्दाकारानुस्यूतत्वं न संभवति । न हि नीलपीतादिषु शब्दरूपमुपलभामहे । अनुपलभमानाश्च कथमशब्दात्मकव्यवच्छेदकृतं शब्दाकारानुस्यूतत्वं कल्पयामः । तस्मादबीजेयं कल्पनेत्यसिद्धो हेतुः ॥ १४२ ॥ १४३.॥
यदुक्तम्-सर्वेषामेकदेशत्वमेकाकारा च विद्भवेदिति, तत्र परमतमाशङ्कते । अ. थाविभागमेवेत्यादि
अथाविभागमेवेदं ब्रह्मतत्त्वं सदा स्थितम् ।
अविद्योपालवाल्लोको विचित्रं त्वभिमन्यते ॥ १४४ ॥ अथाऽपि स्यादविभक्तमेव सदा ब्रह्मात्मकं तत्वमविकारि परमार्थतोऽवस्थितम् । न तस्य परमार्थेन परिणामः, किन्त्वविद्यातिमिरोपहतबुद्धिलोचना नीलादिभेदेन विचित्रमिक मन्यन्ते । यथोक्तम्-यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्रामिश्चित्रामिरमिमन्यते ॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्व. मिवापमं भेदरूपं विवर्ततः ॥ इति । तेन सर्वेषामेकदेशत्वप्रसङ्गो न भविष्यति तेषामवस्तुरूपत्वात् । संविझेदश्च भविष्यति, अविद्योपप्लवकृतत्वात्तस्येति भावः ॥१४४॥
तत्रापीत्यादिना प्रतिविधत्ते. तत्रापि वेचते रूपमवियोपप्लुतैर्जनैः । .. यिनीलादिप्रकारेण त्यागादाने निबन्धनम् ॥ १४५ ॥
तद्रूपव्यतिरेकेण ब्रह्मरूपमलक्षितम् । . .. कथं ब्युत्थितचेतोभिरस्तित्वेन प्रतीयते ॥ १४६ ॥