________________
पखिकासमेतः।
विभिन्नानेकभावात्मरूपत्वात्-विमिन्नोऽनेकभावात्माऽनेकपदार्थस्वभावो रूपं खभावो यस्येति विग्रहः, तद्भावस्तत्वम् । एकं च परमब्रह्मेष्यते । अतोऽभ्युपेतबाधाप्रतिज्ञाया इति भावः ॥ १३७ ॥ दूषणान्तरमप्याह-नित्यशब्दमयत्वे चेत्यादि ।
नित्यशब्दमयत्वे च भावानामपि नित्यता।
सद्योगपद्यतः सिद्धः परिणामो न सङ्गतः ॥ १३८॥ नित्यशब्दमयत्वे-नित्यशब्दखभावत्वे, जगतः शब्दः स्वरूपं चेदावानामपि नित्यत्वं प्राप्नोति । ततश्च सर्वकालं भावानां शब्देन सह योगपद्यतः सिद्धेः-सिद्धत्वात् , परिणामात्मा न प्राप्नोति । तदिति तस्मादित्यर्थे, तेषां वा नीलादीनां योगपद्यं तद्योगपद्यमिति विग्रहः ॥ १३८ ॥ अथ योगपद्यतः सिद्धस्यापि कस्मात्परिणामो न भवतीत्याह-एकरूपेत्यादि ।
एकरूपतिरोभावे धन्यरूपसमुद्भवे ।
मृदादाविव संसिध्येत्परिणामस्तु नाक्रमे ॥ १३९ ॥ नाक्रमे तु वस्तुनि परिणामः सिद्धयेदिति मिन्नक्रमस्तुशब्दः । एवं तावत्परिणामकृतं शब्दमयत्वं भावानां न युक्तम् ॥ १३९ ॥ नापि द्वितीयः पक्षो युज्यत इति दर्शयन्नाह-अथापीत्यादि ।
अथापि कार्यरूपेण शब्दब्रह्ममयं जगत् ।
तथाऽपि निर्विकारत्वात्ततो नैव क्रमोदयः ॥ १४०॥ एवमपि शब्दस्य नित्यत्वेनाविकारित्वात्ततः क्रमेण कार्यादयो न प्राप्नोति । सर्वेपामविकलाप्रतिबद्धसामर्थ्यकारणाधुगपदेवोत्पादः स्यात् । कारणवैकल्याद्धि कार्याणि प्रतिलम्बन्ते, तच्चेदविकलं तत्किमपरमपेक्षेरन् । येन युगपन्न भवेयुः ॥ १४ ॥
अन्योऽन्यरूपसंभूतौ तमादेकखरूपतः।
विवृत्तमर्थरूपेण कथं नाम तदुच्यते॥१४१॥ अपि च-यदि तस्मादेकखभावाच्छब्दात्मनोऽन्यान्यस्य स्वभावस्योत्पत्तिरङ्गीक्रियते, तदा तद्ब्रह्म विवृत्तमर्थरूपेणेत्येतन्न सिद्ध्येत् , न प्रर्थान्तरस्योत्पादेऽन्यस्य तस्वभावमनाविशतस्ताद्रूप्येण विवों युक्तः । तस्मात्सर्वथाऽपि प्रतिज्ञार्थो नावकल्पते ॥ १४१॥