________________
तस्वसाह।
शब्दसंवेदनं सादिति यः प्रसङ्ग उक्तः स यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिज्यते तदा द्रष्टव्यः । यदि पुनरतिसूक्ष्ममतीन्द्रियमिति वर्ण्यते तदाऽयमदोषः । किं तु नीलादीनामपि ताद्रूप्यात्तत्स्वरूपवदग्रहणप्रसङ्ग इत्ययं दोषो वाच्यः । ततश्चायं नियमो नोपपद्यते । उदयव्ययवतीमेवार्थमात्रामपरदर्शनाः प्रतियन्तीति । स्यादेतयथा भवतां क्षणिकत्वं नीलाद्यव्यतिरिक्तं नीलादिसंवेदनेऽपि न संवेद्यते तद्वच्छन्दरूपमिति । तदेतदसम्यक् । न हि नीलादिसंवेदने क्षणिकत्वं न संवेद्यते । किं तु गृहीतमपि निर्विकल्पेन चेतसा भ्रान्तिनिमित्तेन गुणान्तरसमारोपान विनिश्चीयत इत्युच्यते । तेनानुभवापेक्षया तद्गृहीतमेव निश्चयज्ञानापेक्षया त्वगृहीतमिति ज्ञानभेदेनैकस्य गृहीतत्वमगृहीतत्वं चाविरुद्धमेव । न चैवं भवतां पक्षे शब्दस्य ग्रहणाप्रहणे युक्ते । सर्वज्ञानानां सविकल्पकताऽभ्युपगमात् । एकेनैवज्ञानेन सर्वात्मना तस्य निश्चितत्वात् । अगृहीतस्वभावान्तरानुपपत्तेः । यथोक्तम्-"निश्चयः । यन्न निश्चीयते रूपं तत्तेषां विषयः कथ” मिति । अथ किश्चिदविकल्पमपि ज्ञानमभ्युपगम्यते । न तर्हि वक्तव्यं-"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते".। इति । शब्दाकारानुस्यूतत्वादिति च हेतुर्न सिद्ध्येत् । ततश्च प्रमाणाभावाच्छब्दात्मकत्वव्यवस्थानं भावानामनिबन्धनमेव स्यात् । किंच क्षणिकत्वं भावानां प्रमाणान्तरतः सिद्धेरनुभूतमपि न निश्चीयत इति व्यपदिश्यते । शब्दात्मता तु भावानां कुतः सिद्धा येन साऽप्येवं व्यवस्थाप्यते ॥ १३५ ॥ अपरमपि दूषणमार्गमाह-प्रतिभावं चेत्यादि ।
प्रतिभावं च यद्येक शब्दात्माऽभिन्न इष्यते ।
सर्वेषामेकदेशत्वमेकाकारा च विद्वेत् ॥ १३६ ॥ स हि शब्दात्मा परिणामं गच्छन् प्रतिपदार्थ भेदं वा प्रतिपद्यते न वा । तत्र यदि न मिन्न इति पक्षस्तदा सर्वेषां नीलादीनामेकदेशत्वं प्राप्नोति । एकदेशत्वमित्युपलक्षणम् । कालपरिणामव्यापारावस्थाविशेषाद्यपि प्रायम् । एकाकारा च, वित प्रतिभासः, भवेत् प्राप्नोति । सर्वेषां नीलादीनामेकशब्दरूपाव्यतिरेकात् ॥१३६॥
प्रतिव्यक्ति तु भेदेश्य ब्रह्माने प्रसज्यते ।
विभिन्मानेकभावात्मरूपत्वाद्वयक्तिभेदवत् ॥ १३७ ॥ - म प्रतिव्यक्ति भेदोऽसा शब्दात्मनोऽङ्गीक्रियते । तदा ब्रह्मणोऽनेकत्वं प्राप्नोति ।