SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ पविकासमेतः। इति स्वभावहेतुः । अन्यथा मिन्नयोगक्षेमत्वात्तत्स्वभावत्वमेव प्रसिध्येदित्येतदन वाधकं प्रमाणम् ॥ १२९ ॥ १३० ॥ १३१॥ . एतदेव विस्तरेण प्रतिपादयमाह-येनेत्यादि । येन शब्दमयं सर्व मुख्यवृत्त्या व्यवस्थितम् । शब्दरूपापरित्यागे परिणामानिधानतः ॥१३२ ॥ येन-यस्मात् , भवद्भिर्मुख्यत एव शब्दस्वभावं जगदिति वर्ण्यते । कस्मादित्याह-शब्दरूपापरित्याग इति ॥ १३२ ॥ यदि नाम मुख्यतः शब्दमयमवस्थितं ततः किमित्याह-अगौणे चेत्यादि । .. अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते । तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम् ॥ १३३ ॥ एकत्वे नीलादीनामिति । शब्देन सहेति शेषः । तत्संवेदनवेलायामिति । तेषां नीलादीनां संवेदनावस्थायाम् । कथं नास्त्यस्य वेदनमिति । तस्यापि नीलादिखभाववदुपलब्धिलक्षणप्राप्तत्वाद्युक्तमेव संवेदनमित्यभिप्रायः ।। १३३ ॥ असावित्तौ हि नीलादेरपि न स्यात्मवेदनम् । ऐकात्म्यान्निधर्मवे भेदोऽत्यन्तं प्रसज्यते ॥ १३४ ॥ अथास्य वेदनं नेष्यते, तदा नीलादेरपि शब्दस्वरूपवदसंवेदनप्रसङ्गः । ऐका; म्यात्-शब्देन सह नीलादीनामेकखभावत्वादित्यर्थः । अन्यथा नीलादीनां शब्देन सह मिन्नधर्मत्वेऽभ्युपगम्यमानेऽत्यन्तभेदोऽङ्गीकर्तव्यः ॥ १३४ ॥ कस्मादित्याह विरुद्धधर्मसङ्गो हि बहूनां भेदलक्षणम् । नान्यथा व्यक्तिभेदानां कल्पितोऽपि भवेदसौ ॥१३५ ॥ न होकस्यैकदैकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम् । एकत्वहानिप्रसङ्गात् । अन्यथा हि यदि विरुद्धधर्माभ्यासेऽप्येकत्वं स्यात्तदा घटादीनां यः कल्पित इष्टो व्य. क्तिभेदः सोऽपि न भवेत् । न केवलं ब्रह्मणः स्वरूपभेदो नास्तीत्यपिशब्दः । यतस्तस्य खात्मनि व्यवस्थितस्य नास्ति भेदो विकारविषयत्वादस्पेति सिद्धान्तः । तथा हि-न घटाघात्मना तस्यानादिनिधनत्वमिष्यते । किं तर्हि ? । परमात्मना घटादयो हि दृश्यमानोदयव्ययाः परिच्छिन्नदेशाश्वोपलभ्यन्त इति । अयं चामुतेः सद
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy