________________
६८
तस्वसहः।
तदुच्यते । शब्दोऽस्लाविपरीतं रूपमित्यर्थः । परमिति । प्रणवात्मकम् । प्रणवो हि किल सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः स च वेदः । अयं तु वर्णपदक्रमेणावस्थितो वेदस्तदधिगमोपायस्तस्य प्रतिच्छन्दकन्यायेनावस्थितः । तं तु परमं ब्रह्माणमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तः(करणाः)पश्यन्तीति । अत्र च प्रमाणयन्ति । ये यदाकारानुस्यूतास्ते तन्मया यथा घटशरावोदचनादयो मृद्विकाराः मृदाकारानुगताः पदार्था मृण्मयत्वेन प्रसिद्धाः । शब्दाकारानुस्यूताश्च सर्वभावा इति खभावहेतुः । यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथा हि-शब्द एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्-न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन वर्तते ॥ इति । झानाकारनिवन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वं तत्सिद्धौ च तन्मयत्वमपि सिद्धमेव, तन्मात्रभावित्वात्तन्मयत्वस्येति ॥ १२८ ।। ते वाच्या इत्यादिना प्रतिज्ञार्थ"दूषयति ।
इति संचक्षते येऽपि ते वाच्याः किमिदं निजम् । शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते ॥ १२९ ॥ न वा तति यचायः पक्षः संघीयते तदा । अक्षरस्ववियोगः स्यात्पौरस्त्यात्मविनाशतः ॥१३०॥ अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने ।
अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम् ॥ १३१ ॥ अत्र कदाचिच्छब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम् , कदाचिच्छब्दादुत्पत्तेर्वा । यथाऽनमयाः प्राणा इति हेतौ मयडिधानात् । अत्र न तावदायः पक्षः, परिणामस्यैवानुपपत्तेः । तथा हि-शब्दात्मकं ब्रह्म नीलादिरूपतां प्रतिपद्यमानं कदाचिनिजं स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येतापरित्यज्य वा । तत्र यदि परित्यज्येत्याचः पक्ष आश्रीयते, तदाऽनादिनिधनमित्यनेन वचनेन यदक्षरत्वमविनाशित्वमभ्युपगतं तस्य हानिः स्यात् , पौरस्त्यखभावविनाशात् । अथापरित्यज्ये. त्यनन्तरः पक्षः, तदा नीलादिसंवेदनकालेऽप्यश्रुतेर्बघिरस्म शब्दः संवेदनं प्राप्नोति । नीलाविसंवेदनवत्तव्यतिरेकात् । प्रयोगः-याव्यतिरिकं तस्मिन्सवेधमाने सं. वेद्यते, यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेयत्मा, नीलाव्यतिरिकम शब्द