SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पविकासमेतः। दकः स कारक उच्यत इत्यदोषः । एतेन सर्वेण यदाचार्यसूर्युक्तदूषणस्योपरिचोधमापतति तत्प्रतिविहितं भवति । तथाहि-तत्रेदं चोद्यं भवति । न हेतुरस्तीति सहेतुकं वदन्नपि क्रिमिति प्रतिज्ञां सादयेत् । स हि ज्ञापकं हेतुं ब्रूते कारकं तु प्रतिक्षिपतीति । तदनोत्तरम्-ज्ञापकोऽपि कारक एव ज्ञानहेतुत्वादिति । एतेन ववचनविरोध उद्भाव्यते । न त्वहेतुत्वसाधकः कश्चिद्धेतुरस्ति व्याप्तेः प्रत्यक्षादिबाधितत्वात् ॥ १२६॥ . तस्मादित्यादिनोपसंहारव्याजेनानुमानबाधितत्वं च प्रतिज्ञार्थस्य दर्शयति.. . तस्मात्सहेतवोऽन्येऽपि भावा नियतजन्मतः । साध्यार्थविषयं यद्वज्ज्ञानं साधनमावि ते ॥१२७ ॥ इति खाभाविकजगद्वादपरीक्षा। ___ अन्येऽपीति। साध्यार्थविषयज्ञानव्यतिरेकिणो राजीवकेसरादयः। नियतजन्मत इति । नियतपदार्थसन्निधाने सतीति शेषः । प्रयोगः-ये नियतपदार्थसन्निधाने सति नियतजन्मानस्ते सहेतुकाः । यथा-भवत्साधनसन्निधानभाविसाध्यार्थविषयं ज्ञानम् , तथा च राजीवादयो भावा इति स्वभावहेतुः ॥ १२७ ।। इति खाभाविकवादपरीक्षा । नाशोलादेत्यादिना शब्दब्रह्मवादिनो ब्रुवते नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् । यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥१२८॥ . पूर्वापरादिविभागरहितमनुत्पन्नमविनाशि यच्छन्दमयं ब्रह्म तस्यायं रूपादिर्भावमामः परिणाम इति प्रतीयते यथोक्तम् । अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । तत्र-आदिः-उत्पादः, निधनम् -नाशः, तदभावादनादिनिधनम् । अक्षरमिति । अकाराद्यक्षरस्य निमित्तत्वात् । एतेनामिधानरूपेण विवों दर्शितः । अर्थभावेनेत्यादिना पुनरभिधेयविवः । प्रक्रि. येति भेदाः । ब्रह्मेति नामसंकीर्तनम् । अस्यैव श्लोकस्यार्थ निर्दिशति-नाशोलादासमालीढमिति । नाशोत्पादग्रहणमुपलक्षणम् । इदमप्यत्र बोध्यम् , पूर्वामरवेशविभागरहितमिति । तथाहि-अनादिनिधनत्वं पूर्वापरदेशविभागरहितत्वमपि तत्र निर्दिष्टम् । शब्दमयमिति । शब्दस्वभावम् , अत एव शब्दतत्त्वमस शब्दतत्त्वं
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy