________________
६६
तत्वसमहः। संदिग्धत्वात् । न हि सर्वैः पुरुषैर्मयूरचन्द्रिकादीनामदृष्टं कारणं नोपलभ्यत इत्यत्राग्दिर्शिनः किंचिदस्ति प्रमाणम् । याऽपि स्खेनादृष्टिः सा व्यमिभारिणी, कस्मात् ? गिरिकुहरान्तर्गतस्य दूर्वाप्रवालशिलाशकलादेरनुपलब्धस्यापि सत्वतः-सत्वाविरोधादित्यर्थः । तन्न निश्चितमेवासत्त्वं सन्देहात् ॥ १२२ ॥
अहेतुकत्वसिद्ध्यर्थं न चेद्धेतुः प्रयुज्यते । न चाप्रमाणिकी सिद्धिरतः पक्षो न सिद्ध्यति ॥ १२३ ॥ तत्सिद्धये च हेतुश्चेत्प्रयुज्येत तथाऽपि न ।
सिद्धस्तद्धेतुजन्यत्वात्पक्षस्ते संप्रसिद्ध्यति ॥१२४ ॥ अपि चैवं भवान्पर्यनुयोज्यः। किं निर्हेतुका भावा इत्यस्य स्वपक्षस्य सिद्धये भवता हेतुः कश्चिदुपादीयते आहोखिन्न । तत्र यदि नोपादीयते, तदा पक्षस्ते न सिद्ध्यति । न हि प्रमाणमन्तरेणार्थस्य सिद्धिरस्ति । अथोपादीयते, तथाऽपि न हि पक्षस्ते संप्रसिन्नतीति वक्ष्यमाणेन संबन्धः । कस्मात् । सिद्धेस्तद्वेतुजन्यत्वात्प्रमेयार्थविषयायाः सिद्धेनिश्चयस्य तेन हेतुना जन्यमानत्वात् । तथा चोक्तमाचार्यसूरिपादैः। “न हेतुरस्तीति वदन्सहेतुकं ननु प्रतिज्ञा स्वयमेव सादयेत् । अथापि हेतुः प्रणयालसो भवेत्प्रतिज्ञया केवलयाऽस्य किं भवेत्” इति ॥ १२३ ॥ १२४ ॥
स्यादेतत्-झापको हेतुर्मया प्रयुज्यते न कारकः । तत्कस्मात्पक्षो मे न सिध्यतीत्याह-तथा हीत्यादि।
तथाहि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् ।
सिद्धेनिमित्ततां गच्छन्साध्यज्ञापकमुच्यते ॥ १२५ ॥ ज्ञापको हेतुरिति । त्रिरूपं लिङ्गं स्वार्थानुमानकाले । वचो वेति । परार्थानुमानकाले । तत्प्रकाशकमिति । तस्य हेतोः प्रकाशकम् । सिद्धेरिति । प्रमेयार्थनिश्चयस्य । अन्यथा यदि सिद्धरपि निमित्तभावं न यायात्तदा कथं न ज्ञापकं भवेत् । एवं हि सर्व सर्वस्य ज्ञापकं प्रसज्यते ॥ १२५ ॥
यद्येवं कथमयमाचाविभागः कारकाज्ञापकस्य क्रियते । अत्र च ज्ञानवशादर्थनिर्देशो नोत्पादकवतार्थवशादित्याह__ अतः कारक एवायं ज्ञापको हेतुरुच्यते ।
साध्यानुत्पादकत्वातु कारको न प्रकाश्यते ॥१२६ ॥ साध्यानुत्पादकत्वाइसौ बापक उच्यते न कारक इति, यस्तु साध्यसारादेवला