________________
पलिकासमेतः। एवं तावत्प्रत्यक्षविरुद्धत्वं प्रतिज्ञार्थस्य हेतोश्चासिद्धतोद्भाविता । सांप्रतमभ्युपगम्यहेतोः सिद्धिमनैकान्तिकत्वं प्रतिपादयनाह-मा वेत्यादि । ।
मा वा प्रमाणसत्ता भूद्धेतुसद्भावसिद्धये ।
तथापि मानाभावेन नैवार्थासत्वनिश्चयः ॥ ११९ ॥ यद्यनुपलम्भमात्रं हेतुत्वेनोपादीयते तदाऽनैकान्तिकता। यतो मानाभावेन प्रमाणाभावमात्रेण हेतुना नैवार्थसत्ताया अभावनिश्चयः ॥ ११९ ॥ कस्मान्न भवतीत्याह-यस्मादित्यादि ।
यस्मादर्थस्य सत्ताया व्यापकं न च कारणम् ।
प्रमाणं भेदसद्भावाद्यभिचारात्तदुद्भवात् ॥ १२०॥ व्यापको हि स्वभावो निवर्तमानः खं व्याप्यं निवर्तयति, कारणं वा कार्यम् । तत्र तादात्म्यतदुत्पत्तिभ्यां व्याप्यकार्ययोः प्रतिबद्धत्वात् । न च प्रमाणार्थसत्तयोरभेदो मिन्नाभासत्वात् । नापि प्रमाणमर्थस्य कारणं व्यभिचारात् । प्रमाणमन्तरेणापि भावात् । तथाहि-देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणेनाविषयीकृतानामपि सत्त्वमविरुद्धमेव । न च येन विनाऽपि यद्भभवति तत्तस्य कारणं युक्तमतिप्रसङ्गात् । कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागः । तदुद्भवाञ्च न प्रमाणमर्थसत्ताकारणम् । तथा हि-अर्थादेव विषयभूतात्प्रमाणमुद्भवति । न पुनः प्रमाणात्प्रमेयोऽर्थः ।। १२० ॥
अथापि स्यादप्रतिबद्धमपि प्रमाणमर्थसचाया निवर्तकं भविष्यतीत्याहयश्चेत्यादि ।
यश्च नैवंविधो भावस्तस्य नैव निवृत्तितः ।
ऐकान्तिकमसंबन्धाद्गम्यतेऽन्यनिवर्त्तनम् ॥ १२१ ।। नैवविध इति । न कारणं नापि व्यापकम् । न ह्यप्रतिबद्धस्य निवृत्त्याऽन्यस्य नियमेन निवृत्तिर्युक्ता, अतिप्रसङ्गात् । एवं ह्यश्वनिवृत्तौ गोरपि निवृत्तिः स्थात् ॥ १२१ ॥
सर्वादृष्टिश्च सन्दिग्धा खादृष्टियभिचारिणी।
विन्ध्यादिरन्ध्रदूर्वादेरदृष्टावपि सत्वतः ॥ १२२ ॥ अपि चानुपलब्धेहेतुत्वेनोपादीयमाना सर्वपुरुषोपलम्भनिवृत्तिलक्षणा वोपादीयते ? खोपलम्भनिवृचिलक्षणा वा ? न तावदाया, तस्सा अग्दिर्शनेन निश्चेतुमशक्यतया