________________
तत्त्वसङ्ग्रहः। व्यभिचारो न चैतच्छक्यं प्रदर्शयितुम् । अतो नास्ति कार्यकारणभावलक्षणस्य व्यभिचारः ॥ ११३ ॥ ११४ ॥
न केवलं बीजादिः कारणत्वेन निश्चितो भावानां देशकालावपि प्रतिनियतौ निश्चिताविति दर्शयति-नियतावित्यादि ।
नियतौ देशकालौ च भावानां भवतः कथम् । यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा ॥ ११५ ॥ कचित्कदाचित्कस्मिंश्चिद्भवन्तो नियताः पुनः।
तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः ॥ ११६ ॥ यदि हि राजीवादीनां तद्धेतुता–प्रतिनियतदेशकालहेतुता, न स्यात् , तदा येयमुपलादिदेशपरिहारेण सलिलादावेव प्रतिनियतदेशे वृत्तिः, या च शिशिरादिसमयपरिहारेण निदाघादिसमये वृत्तिः, सा न प्राप्नोति । किं तु सर्वत्र देशे काले च ते राजीवादयो भावा भवेयुस्तन्निरपेक्षत्वात् । तदन्यदेशकालपरिहारान्नियमेन प्रतिनिययतदेशादौ वर्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते ॥ ११५ ।। ११६ ॥ ननु निरमिप्रायाणां भावानां केयमपेक्षेत्याह-तदपेक्षा तथावृत्तिरिति ।
तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते ।
प्रत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतवः ॥ ११७॥ तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते । नत्वभिप्रायामिका । स्यादेतद्यदि नाम तदपेक्षा तेषाम् , तथाऽपि तत्कार्यता कथमवसितेत्याहअपेक्षा कार्यतोच्यत इति । न ह्यन्या तत्कार्यता, किं तर्हि ? येयं तथावृत्तिलक्षणाऽपेक्षा सैव तत्कार्यतोच्यते । सा च तथावृत्तिरेषां कथं सिद्धेति चेदाह-प्रत्यक्षेत्यादि ॥ ११७ ॥
तत्स्वाभाविकवादोऽयं प्रत्यक्षेण प्रवाध्यते ।
प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात् ॥ ११८ ॥ तदिति । तस्मात् । तेषु वा राजीवादिषु स्वाभाविकवाद इति समासः। प्रत्यक्षेण प्रबाध्यत इति । अनुपलम्भस्याप्यन्योपलम्भनतया प्रत्यक्षालकत्वात् । यत्पुनः सुखादीनामहेतुकत्वसाधनाय कादाचित्कत्वादिति साधनमुक्तं तत्साध्यविपरीतसाधनाद्विरुद्धम् । अहेतोरनपेक्षस्य कादाचित्कत्वानुपपत्तेः । दृष्टान्तस्य च साध्यविकलतेति मावः ॥ ११८॥
. . . . . . . . . . . .