________________
पलिकासमेतः।
६३ यदि नाम प्रत्यक्षतो निर्हेतुकत्वं दुःखादीनां न सिद्धं तथाऽप्यनुमानतः सिद्धमेव । तथा हि-यत्कादाचित्कं तदहेतुकं निश्चितं यथा कण्टकतैक्ष्ण्यादि, कादाचित्तं च दुःखादीनीति स्वभावहेतुः । न चापि यस्य भावाभावयोर्यस्य भावाभावौ नियमेन भवतः, तत्तस्य कारणमिति युक्तम् , व्यभिचारात् । तथाहि-सति स्पर्शे चक्षुर्विज्ञानं भवत्यसति च न भवति । अथ च नासौ चक्षुर्विज्ञानकारणम् । तस्मात्कार्यकारणभावलक्षणमेतद्व्यभिचारीत्यतः सिद्धं सर्वहेतुनिराशंसं भावानां जन्मेति ॥ ११२ ॥ सरोजकेसरादीनामित्यादिना प्रतिविधत्ते ।
सरोजकेसरादीनामन्वयव्यतिरेकवत् । अवस्थातिशयाक्रान्तं बीजपङ्कजलादिकम् ॥ ११३ ॥ प्रत्यक्षानुपलम्माभ्यां निश्चितं कारणं यदा।
किमित्यन्यस्तदा हेतुरमीषां परिपृच्छयते ॥११४ ॥ अनेन हेतोरसिद्धिं प्रत्यक्षविरोधं च प्रतिज्ञार्थस्य दर्शयति । यदुक्तं राजीवकेसरादीनां कारणं नोपलभ्यत इति, तदसिद्धम् , प्रत्यक्षानुपलम्माभ्यां बीजपङ्कजलादेरन्वयव्यतिरेकवतः कारणत्वेन निश्चितत्वात् । तथाहि-यस्मिन्सत्येव यस्य जन्म भवति यस्य च विकाराद्यस्य विकारस्तत्तस्य कारणमुच्यते । तचैवंभूतं बीजादिकमुच्छूनादिविशिष्टावस्थाप्राप्तं राजीवकेसरादीनामन्वयव्यतिरेकवत्-भावाभाववत् । प्रत्यक्षानुपलम्माभ्यां निश्चितमित्यसिद्धो हेतुः । यच्चाप्युक्तं कार्यकारणलक्षणं व्यभिचारीति, तदसिद्धम् । स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि निमित्तभावस्थेष्टत्वात् । तथाहि-स्पर्श इति भूतान्युच्यन्ते । तानि चोपादायोपादाय रूपं वर्त्तते, ततश्चक्षुविज्ञानं प्रति स्पर्शल निमित्तभावोऽस्त्येव । केवलं साक्षात्पारंपर्यकृतो विशेषः। न चापि व्यतिरेकमात्रमस्माभिः कार्यकारणभावनिश्चयहेतुत्वेनाभ्युपगतम् । किं तर्हि ?
ष्टिमेव । तथा हि-येषु सत्सु समर्थेषु तदन्येषु हेतुषु यस्यैकस्याभावाद्यन्न भवति तत्तस्य कारणमिति वर्ण्यते । न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रम् । अन्यथा मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्य माविवाहामावे सत्यभावप्रसमात् । न चैवंभूतम व्यतिरेकस स्पर्शेन व्यभिचारोऽस्ति । तथा हि-यदि रूपादिसमिधानं प्रदर्य स्पर्शस्यैकसाभावाचक्षुर्विज्ञानं न भवतीत्येवं प्रदर्येत तदा स्या.