SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ तत्त्वसङ्कहः । कचिदिति सामान्यवचनम् । न खात्मभूते नापि परभूत इत्यर्थः । सति व्यापारे निष्पन्नामतत्व एव स्यात् । एतावन्मात्रलक्षणत्वानिष्पन्नस्येति भावः ॥ १०९ ॥ इत्युभयपरीक्षा। आदिशब्दोपात्तखभाववादिवादमल्पवक्तव्यतया क्रममनाश्रियैव निराकुर्वनाहसर्वेत्यादि । सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । खभाववादिभिस्ते हि नाहुः खमपि कारणम् ॥ ११ ॥ खभाववादस्तु यद्यप्यादिशब्देनाहत्यनोपात्तः । तथाऽपि स्वभाववादिन(म?)तोपादानात्सूचित एव । तत्र ये स्वत एव भावा जायन्त इति वर्णयन्ति । ते स्वक्रियाया विरोधत इत्यादिना निरस्ताः । साम्प्रतं स्वभाववादिनो निरस्यन्ते । त एवमाहुर्न स्वतो नापि परतो भावानां जन्म किं तर्हि ? सर्वहेतुनिराशंसम्-स्वपरकारणनिरपेक्षमित्यर्थः । ननु ये स्वत एव भावा भवन्तीति वर्णयन्ति, तेभ्य एषां को भेद इत्याहते हीत्यादि । ते-खभाववादिनः, स्वमिति । स्वरूपम् । अपिशब्दात्पररूपमपि । पूर्वकास्तु स्वभावं कारणमिच्छन्ति, एते तमपि नेच्छन्तीति भेदः ॥ ११०॥ __ अत्र च युक्तिं वर्णयन्ति-यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकम् , तत्प्रेक्षावतामसद्व्यवहारविषयः। यथा शशविषाणमनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह-राजीवेत्यादि । राजीवकेसरादीनां वैचित्र्यंकः करोति हि। मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥ १११ ॥ राजीवम्-पद्मम् , तस्य केसरादय इति विग्रहः । आदिग्रहणानालदलकर्णिकादीनां कण्टकतैक्ष्ण्यादीनां च ग्रहणम् । वैचित्र्यमिति । संस्थानवर्णकार्कश्यादिभेदम् । कः करोतीति। नैव कश्चित्। ईश्वरादेः कारणस्यानुपलभ्यमानत्वादिति भावः॥१११॥ स्यादेतत्-यदि नाम बाह्यानां भावानां कारणानुपलब्धेरहेतुत्वं सिद्धम् , आध्यालिकानां तु कथं सिद्धमित्याह-यथैवेत्यादि । यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम् । कादाचित्कतया तदुःखादीनामहेतुता ॥ ११२॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy