________________
पषिकासमेतः। इदं हि सर्वा(त्त्वा)दीनामुत्कटं रूपं न तावनित्यं युवं वम् , कादाचित्कत्वात्। ततश्चास्य भावः कदाचित्रकृतीश्वरादेव कारणादन्यतो वा हेतोः स्वतत्रो वा स्यादिति त्रयो विकल्पाः । तत्र प्रथमे पक्षे तदुत्कटं रूपं सर्वदा भवेत्, प्रकृतीश्वराख्यस्य हेतोर्नित्यरूपत्वेन सदा सन्निहितत्वात् ॥ १०५॥ द्वितीयेऽपि पक्षे प्राह-न चापरमित्यादि ।
न चापरंपरैरिष्टमतो नैवान्यतोऽपि तत् ।
नापि खतन्त्रमेवेदं कादाचित्कत्वसंभवात् ॥१०६॥ न हि प्रकृतीश्वरव्यतिरिक्तमपरं कारणमिष्टम् , येनान्यतस्तदुद्भवेत् । नापि तृतीयः पक्षो युक्त इत्याह-नापीत्यादि ॥ १०६॥ अथ वातव्ये सति कादाचित्कत्वस्य को विरोध इत्याह-स्वत इत्यादि ।
खतो भावे यहेतुत्वं खक्रियाया विरोधतः।
अपेक्षया हि भावानां कादाचित्कत्वसंभवः ॥ १०७॥ स्वतः-स्वभावात् , भावे-जन्मनि सति, अहेतुकत्वं नियमतो भवेत् । ननु खभावादुत्पद्यमानः कथमहेतुको भवति यावता स्वभाव एव तस्य हेतुः प्रतीयत इत्याह-स्वक्रियाया विरोधत इति स्वस्मिन्स्वरूपे क्रियाया हेतुभावस्य विरोधात् । स्यादेतद्भवत्वहेतुकत्वम् , तथाऽपि किमिति कादाचित्कत्वं न युज्यत इत्याह-अपेक्षया हीत्यादि । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्का युक्ताः । परभावाभावप्रतिबद्धत्वात्तेषां सदसत्तयोः। ये पुनरपरायत्तवृत्तयस्तेषामपेक्षणीयस्य कस्यचिदभावात्किमिति कदाचिद्भवेयुः ।। १०७ ॥ अथ स्वक्रियाविरोध एव कथं सिद्ध इत्याह-तथा हीत्यादि ।
तथा हि न त्यभावस्य खात्मनि व्यापतिर्मता ।
निष्पन्नस्यात्मनोऽप्यस्यामवस्थायां प्रसिद्धितः ॥१०८॥ आत्मानं हि जनयन्वभावो निष्पन्नो वा न वा । न तावन्निष्पन्नः । तस्यामवस्थायामात्मनोऽपि निष्पन्नरूपाव्यतिरेकित्वेन प्रसिद्धेर्निष्पन्नत्वात्, स्वभाववत् । ततश्च जन्यासंभवात्कुत्रासौ भावो व्याप्रियेत ॥ १०८ ॥ नाप्यनिष्पन्न इति दर्शयति-अनिष्पन्नेत्यादि ।
अनिष्पन्नात्मतत्वस्तु नैव व्याप्रियते कचित् । सर्वशक्तिवियुक्तत्वादाकाशकमलादिवत् ॥१०९॥
इत्युभयपरीक्षा।