________________
तत्त्वसद्रहः। इहोच्यत इत्यादिना प्रतिविधत्ते। .इहोच्यते तयोरेकक्रियाकाले समस्ति किम् ।
तदन्यकार्यनिष्पत्तिसामर्थ्य यदि वा न तत् ॥१०१॥ यद्यस्ति सर्गकालेऽपि द्वयमप्यपरं भवेत् ।
एवमन्यस्य सद्भावे द्वयमन्यत्प्रसज्यते ॥ १०२॥ तयोरिति । प्रकृतीश्वरयोः। एकक्रियाकाल इति । सर्गस्थितिप्रलयानामन्यत. मस्यैकस्य क्रियाकाले तदपरकार्यद्वयोत्पादनसामर्थ्य किमस्त्युत नास्तीति विकल्पद्वयम् । तत्र यद्यस्ति तदा सर्गकालेष्वविकलकारणत्वादपरं कार्यद्वयं स्थितिप्रलयात्मकं भवेदुत्पादवत् । एवं स्थितिकालेऽप्युत्पादविनाशौ प्राप्नुतः। प्रलयकाले च स्थित्युत्पादौ स्याताम् । न चैवं युक्तम् । न हि परस्परपरिहारेणावस्थितानामेकत्र धर्मिण्येकदा सद्भावो युक्तः ॥ १०१ ॥ १०२॥
स्यादेतत्तदेककार्योत्पादकाले तयोः प्रकृतीश्वरयोरपरकार्यद्वयोत्पादनाय रूपान्तरं न सन्निहितमिति, तेन तदानीं तयोर्न प्रसङ्ग इत्याह-न हीत्यादि ।
न हि तत्पररूपेण पुनरन्यस्य कारकम् ।
खरूपं च तदेवास्य तक्रियाविरतिः कुतः ॥ १०३ ॥ तदिति । प्रकृतीश्वराख्यं कारणम्-अन्यस्येति । पाश्चात्त्यस्य कार्यद्वयस्य । न पररूपेण, किं तर्हि ? स्वरूपेणैव कारणमिति भावः ॥ १०३ ॥
स्यादेतद्यद्यपि तत्पररूपेण न कारणं तथाप्येककार्योत्पादकाले परिशिष्टकार्यद्वयोत्पत्तये सामर्थ्यमस्य नास्ति । तेन कार्यद्वयस्य तदानीमनुत्पाद इत्याह-तत्सामयेत्यादि ।
तत्सामर्थ्यवियोगे तु नैव तजनकं भवेत् ।
अन्यदा शक्तिशून्यत्वाद्वियदम्भोरुहादिवत् ॥ १०४॥ अन्यदेति । अभिमतकार्यारम्भकाले ॥ १०४ ॥ स्थादेतद्यद्यपि प्रधाने सर्वा शक्तिः सन्निहिता, तथाऽपि योद्भूतवृत्तिर्भवति । सैव कारणतां प्रतिपद्यते, नान्या, तेन योगपy कार्याणां न भविष्यतीत्याह-उत्कटमित्यादि।
उत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् । सर्वदा तद्भवेद्धेतोनित्यरूपस्य समिधेः ॥१०५॥