________________
पलिकासमेतः। साहित्यं सहकारित्वादेतयोः कल्पिते च यत् । तत्स्यादतिशयाधानादेकार्थक्रिययाऽपि वा ॥ ९५ ।। न युक्ता कल्पनाऽऽद्यस्य निर्विकारतया तयोः।
न द्वितीयस्य कार्याणां यौगपद्यप्रसङ्गतः ॥९६ ॥ साहित्यं नाम सहकारित्वं तच्च द्विविधम् , परस्परातिशयाधानाद्वा स्यादेकार्थकारित्वाद्वा । तत्र न तावदाद्यस्यातिशयाधानलक्षणस्य सहकारित्वस्य कल्पना युक्ता, कस्मात् ? तयोरीश्वरप्रधानयोनित्यत्वेन निर्विकारत्वात् । नापि द्वितीयस्थ, कल्पना युक्तेति प्रकृतेन संबन्धः । कस्मात् ? कार्याणां योगपद्यप्रसङ्गात् । अविकलाप्रतिहतसामर्थ्यस्येश्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणात् । अत्र च पूर्ववद्यदविकलकारणमित्यादि प्रसङ्गसाधनं वाच्यम् ॥ ९५ ॥ ९६ ॥ अथोच्यत इत्यादिना परमतेन यदविकलकारणमित्यस्य हेतोरसिद्धतामुद्भावयति ।
अथोच्यते प्रधानस्य त्रिरूपत्वं व्यवस्थितम् । तत्रायं रजसा युक्तः सर्गहेतुर्महेश्वरः ॥ ९७ ॥ उद्भूतवृत्तिसत्त्वं तु यदा संश्रयते पुनः । तदा सर्वस्य लोकस्य स्थितेर्याति निमित्तताम् ॥ ९८॥ उद्भूतशक्तिरूपेण तमसा युज्यते यदा । प्रलयं सर्वजगतस्तदा किल करोत्ययम् ॥ ९९ ॥ रजासत्वादिरूपादि तदेवं सहकारिणः ।
क्रमेणैवास्य वर्तन्ते कार्याणां नाक्रमस्ततः ॥१०॥ यद्यपि कारणद्वयमेतन्नित्यसन्निहितम् । तथाऽपि क्रमेणैवाऽमी कार्यभेदाः प्रवर्तिप्यन्ते, यत ईश्वरस्य प्रधानगतास्त्रयो गुणाः सत्वादयः सहकारिणः, तेषां च क्रमवृत्तित्वात्तत्कार्येष्वपि क्रमो भवति । तथा हि-यदोद्भूतवृत्तिना रजसा युक्तो भवति महेश्वरस्तदा सर्गहेतुः प्रजानां भवति, प्रसवकार्यत्वाद्रजसः । यदा तु सत्त्वं समुदूतवृत्ति संश्रयते तदा लोकानां स्थितिकारणं भवति, सत्वस्य स्थितिहेतुत्वात् । यदा तु तमसोद्भूतशक्तिना समायुक्तो भवति तदा प्रलयं नाशं सर्वजगतः करोति, तमसः प्रत्ययहेतुत्वात् यथोक्तम्-रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तम:स्पृशे । अजाय सर्गस्थितिनाशतविणे त्रयीमयाय त्रिगुणात्मने नमः ॥ इति । किलशब्दोऽसंभावनायाम् ॥ ९७ ॥ ९८ ॥ १९ ॥ १०॥