________________
५८
तवसङ्ग्रहः ।
यदि सामान्येनास्ति कश्चित्सर्वज्ञ इति साध्यते, तदा नास्मान्प्रतीदं भवतां साधनं राजते । सिद्धसाध्यतादोषात् । किंतु ये सर्वज्ञा पवादिनो जैमिनीयास्तेष्वेव शोभते । अत्रेश्वराख्यः सर्वज्ञः साध्यते, तदा प्रतिबन्धासिद्धेर्हेतोरनैकान्तिकता, दृष्टान्तस्य साध्यविकलतेति । अतो नास्मान्प्रति साधनमेतद्राजत इति भावः । यचापि विचित्रोदयेत्यादि धर्मिविशेषणमुपात्तं तस्य न कश्चिदुपयोगोऽस्ति । केवलं परव्यामोहनाय स्वप्रक्रियाघोषणमिदं क्रियते भवद्भिः । तथाहि — विना धर्म्यादिविशेषणेनैवंविधेन यदि साधनमसिद्धतादिदोषरहितं तदा भवत्येवाभिमतसाध्यसिद्धिः । अथासिद्धतादिदोषदुष्टं साधनम्, तदैवंविधविशेषणोपादानेऽपि न साध्यसिद्धिरस्तीति, सर्वथा व्यर्थ - मेव विशेषणम् । यत्पुनर्विपक्षाद्धेतुं व्यावर्त्तयति तदेव विशेषणं न्याय्यम् । किंचाश्रयासिद्धो हेतुः । न हि यथोक्तविशेषणविशिष्टो धर्मी प्रसिद्धोऽस्ति प्रतिवादिनः, तस्मान्न शास्त्रप्रसिद्धो धर्मी कर्त्तव्यः ॥ ९३ ॥
इतीश्वरपरीक्षा |
उभयव्यापाररहितत्वप्रतिपादनार्थमाह – प्रकृतीश्वरयोरित्यादि ।
प्रकृतीश्वरयोरेवं हेतुत्वप्रतिषेधनात् ।
प्रत्येकं सहितं कर्तृ नोभयं जन्मिनामिदम् ॥ ९४ ॥
1
तत्र केचित्साङ्ख्या आहुः न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते, तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण स्वकार्यमारभमाणो दृष्टः । न च पुरुषोऽधिष्ठायको युक्तस्तस्य तदानीमज्ञत्वात् । तथा हि- बुद्ध्यध्यवसितमेवार्थं पुरुषश्चेतयते । बुद्धिसंसर्गाश्च पूर्वमसावज्ञ एव, न जातु कंचिदर्थं विजानाति । न चाविज्ञातमर्थ शक्तः कश्चित्कर्तुमिति नासौ कर्त्ता । तस्मादीश्वर एव प्रधानापेक्षः कार्यभेदानां कर्त्ता, न केवलः । न हि देवदत्तादिः केवलः पुत्रं जनयति नापि केबलः कुलालो घटं करोतीति । तदेतदपि प्रत्येकं प्रकृतीश्वरयोर्हेतुत्वनिषेधात्सहितमपि नेदमीश्वरप्रधानाख्यमुभयं जन्मिनाम् — उत्पत्तिमताम्, कर्तृ - जनकम्' इति सिद्धम् ।। ९४ ।।
ननु यदि नाम प्रत्येकमनयोः कर्तृत्वं निषिद्धम्, तथाऽपि सहितयोरनिषिद्धमेव, न हि केवलानां चक्षुरादीनां चक्षुर्ज्ञानोत्पत्तिं प्रति सामर्थ्याभावे सहितानामपि न भवतीत्याशमाह - साहित्यमित्यादि ।