________________
पञ्जिकासमेतः ।
अभ्युपेत्य साधनानामदुष्टत्वं दूषणान्तरमाह — यथोक्तेत्यादि । यथोक्तदोषदुष्टानि माभूवन्साधनानि वा । तथाऽपि कर्तुर्नैकत्वं व्यभिचारोपदर्शनात् ॥ ९२ ॥ एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् । यथोक्ता दोषा अनुमानविरोधपर्यन्ताः । अयमत्र समुदायार्थः । यद्यपि तनुगिरिप्रभृतीनामेभ्यः साधनेभ्यो बुद्धिमान्कर्त्ता सिद्ध्यति । तथाऽप्यसौ य एवैकस्य हेतुः स एवान्यस्यापीति न निश्चित एवेति प्रतिकार्य भिन्नस्यापि कर्तुः संभाव्यमानत्वात्सौधादेश्चैकस्यापि बहुभिः करणेक्षणादतो नैकः कर्त्ता प्रतिपादयितुं शक्यते, यावचैकः कर्त्ता न सिद्धस्तावत्कुतः सर्वज्ञत्वसिद्धिरिति । अत्र प्रशस्तमतिरेककर्तृत्वसिये प्रमाणयति । “एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः परस्परातिशयवृत्तित्वात्, इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा, यथेह लोके गृहग्रामनगरदे - शाधिपतीनामेकस्मिन्सा-भौमे नरपतौ, तथा च भुजगरक्षोयक्षप्रभृतीनां परस्परातिशयवृत्तित्वम् तेन मन्यामहे तेषामप्येकस्मिन्नीश्वरे पारतंत्र्य " मिति । तत्र यद्येत ईश्वराख्येनाधिष्ठिता इत्ययमर्थः साधयितुमिष्टस्तदाऽनैकान्तिकता । विपर्यये बाधक - प्रमाणाभावात् । प्रतिबन्धासिद्धेः । दृष्टान्तस्य च साध्यविकलता । अथाधिष्ठायकमात्रेण साधिष्ठानेति साध्यते, तदा सिद्धसाध्यता, यत इष्यत एवास्माभिर्भगवता संबुद्धेन सकललोकचूडामणिना सर्वमेव जगत्कारुण्यवशादधिष्ठितम् । यत्प्रभावादद्याप्यभ्युदयनिःश्रेयससंपदमासादयन्ति साधवः । इदं चापरं तेनैव साधनमुक्तम् । "सप्तभुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतत्वात् । एकावसथान्तर्गतापवरकवत् । यथैकावसथान्तर्गतानामपवरकाणां सूत्रधारैकबुद्धिनिर्मितत्त्वं दृष्टं तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सप्तभुवनानि । तस्मात्तेषामप्येकबुद्धिनिर्मितत्वं निश्चीयते । यदुद्धिनि
तानि चैतानि स भगवान्महेश्वरः सकलभुवनैकसूत्रधार” इति । तदत्र हेतुरसिद्धः, नैकं भुवनमावसथादि वाऽस्ति, व्यवहारलाघवार्थ बहुष्वियं संज्ञा कृता । अत एव दृष्टान्तोऽपि साधनविकलः । एकसौधान्तर्गतानामपवरकादीनामनेकसूत्रधारघटितत्वदर्शनाचानैकान्तिको हेतुः । एवमन्येष्वपि साधनेषु यथायोगं दूषणं वाच्यम् ॥ ९२ ॥ यथोक्तं विमतेरास्पदं वस्त्वित्यादि । तत्राह - तत्सिद्धौ साधनमित्यादि ।
तत्सिद्धौ साधनं प्रोक्तं जैमनीयेषु राजते ॥ ९३ ॥ इतीश्वरपरीक्षा ।
५७