________________
तत्त्वसङ्ग्रहः। तेषामपि तदुद्भूतौ विफला साधनाभिधा।
नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी ॥ ८९॥ यथोक्तेभ्यः स्वारम्भकावयवसन्निवेशविशिष्टत्वादिभ्यः साधनेभ्य उद्भूता इष्टसाध्यधर्मिविषया जडानामीश्वरकारणाभिनिवेशिनां प्रत्ययाः-निश्चया इवेत्यर्थः । ननु यथोक्तदोषदुष्टत्वान्नैतेभ्य इष्टे साध्ये प्रत्ययाः समुत्पद्यन्त इति न दृष्टान्तधर्मिसिद्धिः । सत्यमेतत् । अत एव जडानामित्युक्तम् । जडानां हि साधनाविवेकाक्षमतया साधनाभासेभ्योऽपि तेषां प्रत्ययाः समुत्पद्यन्त एव । नन्वेवमपि साध्यविकलो दृष्टान्तः, तेषामपि जडप्रत्ययानामीश्वरस्य निमित्तकारणत्वेनेष्टत्वादित्यत आह तेषामपीत्यादि । तेषामपि जडप्रत्ययानाम् , तदुद्भूताविति । ईश्वरादुद्भूताविष्यमाणायाम् , विफला साधनाभिधा-साधनाभिधानं व्यर्थ स्यात् । ईश्वरादेव तेषामुत्पत्तेरिति भावः । ननु साधनाभिधां सहकारिणीमपेक्ष्य तेषामीश्वरो जनको भविष्यति न केवलस्तेनासौ विफला न भविष्यतीत्यत आह–नित्यत्वादित्यादि । यद्यसौ साधनामिधा तस्येश्वरस्यासमर्थ स्वभावमपनीय समर्थमादधीत, तदा स्यात्सा तस्य सहकारिणी, यावता नित्यत्वादीश्वरोऽनुत्पाद्यानिवर्त्यवभावतया न केनचित्किचित्स नीयत इति न साधनाभिधा तस्यासौ सहकारिणी युक्ता ॥ ८८ ॥ ८९ ॥ ___ अपि च यथा परिदृष्टसामर्थ्यसाधनादिकारणव्यतिरेकेणापरिदृष्टसामर्थ्यस्यापीश्वरस्य कारणभावे कल्प्यमानेऽतिप्रसङ्गो भवतां प्राप्नोति, यतस्तमपीश्वरं परिकल्प्यापरमपि ढेषकादिकं (?) कल्पनीयमेव, विशेषाभावादिति दर्शयन्नाह-येष्वित्यादि ।
ये तु सत्सु भवदृष्टमसत्सु न कदाचन ।
तस्यान्यहेतुताक्लप्तावनवस्था कथं न ते ॥९॥ भवदृष्टं यदित्युपस्कारः । अन्यहेतुताक्लप्ताविति । यथा परिदृष्टसामर्थेभ्यो हेतुभ्योऽन्यो हेतुस्तद्भावोऽन्यहेतुता, तस्याः क्लृप्तिः-कल्पनेति विग्रहः ॥ ९० ॥ यदुक्तं सर्वकर्तृत्वसिद्धौ चेत्यादि तत्राह-कर्तृत्वेत्यादि ।
कर्तृवप्रतिषेधाच सर्वज्ञत्वं निराकृतम् ।
बोद्धव्यं तद्वलेनैव सर्वज्ञखोपपादनात् ॥ ९१ ॥ सर्वकर्तृत्वबलेनासौ सर्वज्ञो भवद्भिरिष्यते, तेन तन्निराकरणात्सर्वज्ञत्वमपि तस्यायवतो निराकृतमेव ॥ ९१॥