________________
पंखिकासमेतः। किमिति तांस्तथाभूताननुपकारिणः सहकारिणोऽपेक्षेत । किं च येऽपि ते सहकारिणस्तेऽपि सर्व एवेश्वरस्यायत्तजन्मतया नित्यं समवहता एवेति कथमसिद्धता हेतोः । न चानैकान्तिकता, अविकलकारणत्वहानिप्रसङ्गात्, अविकलकारणस्याप्यनुत्पत्तौ सर्वदैवानुत्पत्तिप्रसङ्गोऽविशेषात् । उद्योतकरस्त्वाह-यद्यपि नित्यमीश्वराख्यं कारणमविकलं भावानां संनिहितम् । तथाऽपि न युगपदुत्पत्तिरीश्वरस्य, बुद्धिपूर्वकारिस्वात् । यदीश्वरसत्तामात्रेणैवाबुद्धिपूर्व भावानामुत्पादकः स्यात्तदा स्यादेतच्चोद्यम् । यदा तु बुद्धिपूर्वकं करोति तदा न दोषः, तस्य खेच्छया कार्येषु प्रवृत्तेः। अतोऽनै. कान्तिकतैव हेतोरिति । तदेतदयुक्तम् । न हि कार्याणां कारणस्येच्छाभावाभावापेक्षया प्रवृत्तिनिवृत्ती भवतः, येनाप्रतिबद्धसामर्थेऽपीश्वराख्ये कारणे सदा सन्निहिते सदीयेच्छाऽभावान प्रवर्त्तन्त इति स्यात्। किं तर्हि ? कारणगतसामर्थ्यभावाभावानुविधायिनो भावाः । तथाहि-इच्छावतोऽपि कर्तुरसमर्थानोत्पद्यन्ते, समर्थाच्च बीजादेरनिच्छावतोऽपि समन्पद्यन्ते । तत्र यदीश्वराख्यं कारणं कार्योत्पादकालवदप्रतिहतशक्ति सदैवावस्थितम् , भावास्तत्किमिति तदीयामनुपकारिणी तामिच्छामपेक्षन्ते, येनोत्पादकालवयुगपत्त उत्पधेरन् । एवं हि तैरविकलकारणत्वमात्मनो दर्शितं भवेत् , यदि युगपद्भवेयुः। न चापीश्वरस्य परैरनुपकार्यस्य काचिदपेक्षाऽस्ति, येनेच्छामपेक्षेत । अपि च-बुद्धिव्यतिरेकेण नान्येच्छाऽस्ति, बुद्धिश्वेश्वरस्य भवद्भिनित्यैकरूपा. ऽभीष्टा, ततश्च बुद्धिपूर्वकारित्वेऽपीश्वरस्य किमिति भावानां युगपदुत्पादो न भवति । ईश्वरवत्तद्बुद्धेरपि सदा सन्निहितत्वात् । अथाप्यनित्या तस्य बुद्धिरङ्गीक्रियते, तथाऽपीश्वरसत्तामात्रभावित्वात्तस्या ईश्वरवत्सदाभाव एवेति, स एव दोषः । तस्मादुद्धिमत्वादिति विशेषणमकिंचित्करमेवेति नानैकान्तिकता हेतोः । न चापि विरुद्धता सपले भावात् न चैवं भवति, तस्माद्विपर्ययः। प्रयोगः-यद्यदा न भवति, न तत्तदानीमविकलकारणम् , यथा कुशूलस्थितबीजावस्थायामनुत्पद्यमानोऽङ्करः । न भवति चैकपदार्थोत्पादकाले सर्व विश्वमिति, व्यापकानुपलब्धिः। न च सिद्धसाध्यता, ईश्वरस्य कारणत्वे सति विकलकारणत्वानुपपत्तेः प्रसाधितत्वात् ॥ ८ ॥ अपरमपि प्रमाणमाह-ये वा क्रमेणेयादि ।
ये वा क्रमेण जायन्ते ते नैवेश्वरहेतुकाः । यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ॥ ८८ ॥