________________
एवं विस्तरेणेश्वरसाधकानि प्रमाणानि निराकृत्य साम्प्रतं व्याप्तिदोषोदावनमुखेन तद्बाधकं प्रमाणं स्वपक्षसिद्ध्यर्थमुपदर्शयितुमाह-अनुमानविरोधेत्यादि । __ अनुमानविरोधश्च व्याः सर्वत्र साधने ।
न विरुद्धेन धर्मेण व्याप्तिहेतोः प्रकल्पते ॥ ८६ ॥ सर्वत्र यथोक्त साधने साध्येन या हेतोर्व्याप्तिस्तस्या अनुमानविरोधो वक्ष्यमाणः । अथ प्रतिज्ञायाः कस्मादनुमानविरोधो नोद्भाव्यते ? यदि प्रतिज्ञा साधनाङ्गं स्यात्तदा सदोषोद्भावनं स्यात् , यावता साक्षात्पारम्पर्येण वाऽसौ न साध्यसिद्धरङ्गभावं प्रतिपद्यते, ततश्च साधनदोषामिधाने प्रस्तुते यत्प्रतिज्ञादोषोद्भावनं तददोषोद्भावनं वादिनो निप्रहस्थानं स्यात् , तस्मान्न साधनप्रयोगेषु प्रतिज्ञादोषो वाच्यः । यत्र तु कचित्प्रतिक्षाविरोध उद्भाव्यते, तत्र तन्मुखेन व्याप्तेरेव तद्विघटनं क्रियत इति प्रहीतव्यम् । यद्वा-साधनप्रयोगादन्यत्र तद्रष्टव्यम् । अथ व्याप्तिकालेऽपि कथमनुमानविरोधी भवतीत्याह-न विरुद्धेनेत्यादि । विरुद्धेनेति । प्रमाणव्याहतेन तस्याऽसंभवादेव न युक्ता व्याप्तिः, न बसता व्याप्तिरवकल्प्यत इति यावत् ॥ ८६ ॥ किं तदनुमानं येन व्याप्तिर्बाध्यत इत्याह-नेश्वरो जन्मिनामित्यादि ।
नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः ।
गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् ॥ ८७॥ यदुत्पत्तिविकलं न तत्कस्यचित्कारणम् , यथा गगनाम्भोजम् , उत्पत्तिविकलश्चेश्वर इति व्यापकविरुद्धोपलब्धिः । प्रसङ्गसाधनं चेदम् , तेनाश्रयासिद्धता न चोदनीया । सर्वमन्यथा युगपद्भवेदिति । अप्रतिबद्धसामर्थ्यकारणत्वादेककालामिमतकार्यग्रामवत्सर्व युगपद्भवेदित्यर्थः । एतदत्रबाधकं प्रमाणम्, अथवाऽर्थकथनमात्रमेतत् । एवं तु प्रसङ्गसाधनं कर्त्तव्यम् । यदविकलकारणं तद्भवत्येव । यथाऽन्त्यावस्थाप्राप्तायां सामग्र्यामविकलकारणो भवनङ्करः। अविकलकारणं च सर्वमीश्वरहेतुकं जगदिति युगपद्भवेत् । स्यादेतत्-नेश्वर एव केवलं कारणमपि तु धर्मादिसहकारिकारणान्तरमपेक्ष्य करोति, निमित्तकारणत्वादीश्वरस्य, तेन धर्मादेः कारणान्तरस्य बैंकल्यादविकलकारणत्वमसिद्धमिति । तदेतदसम्यक् । यदि हि तस्य सहकारिमिः कश्चिदुपकारिमिः कश्चिदुपकारः कर्त्तव्यो भवेत् , तदा तस्य सहकारिणि व्यपेक्षा, यावता नित्यत्वात्परैरनाधेयातिशयस्य न किंचित्तस्य सहकारिभ्यः प्राप्तव्यमस्तीति